________________
शास्त्रार्थकलोपस्कृतः व्यवहितपूर्ववर्तिनोलादिपदवं नीलादिपदाव्यवहितोत्तरवर्तिघटादिपदत्वं वा आकाङ्क्षा । उक्तस्थले च ताद्वश्या एकस्या अप्याकाङ्काया विरभेदकूटाऽभाव एवेति न जगत्प्रवेश इति मन्यते 1 किञ्च यत्र नीलो घट इत्याद्याकायाज्ञानघटितसामग्री तत्र समानविषयकप्रत्यक्षसामग्रीसत्त्वेन तत्तदाकाङ्क्षाशानाधीनशाब्दबोधेच्छाया एवोत्तेजकतया तादृशेच्छाविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रयभावविरहकृतान्यतमत्वेनाकाङ्क्षाज्ञानानां कारणत्वस्योपगन्तव्यतया नीलो घटावित्याद्याकाङ्क्षाज्ञानघटितसामग्रीकालेऽपि नीलो घट इत्याद्याकांक्षाज्ञानाधीनशाब्दबोधेच्छायां सत्यां समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि शाब्दबोधापत्तेः । मम तु तत्तदाकासाज्ञानजन्यशाब्दबोधे तत्तदाकाङ्क्षाज्ञानाधीनशाब्दबोधेच्छाविरहविशिष्टाकाङ्क्षाज्ञानानामेव मेदप्रतियोगितयाऽन्यतमत्वेन प्रवेश इति तदा पूर्वोक्तरीत्या गौरवमेवास्तीत्यलम् । अथ स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानशाब्दबोधम्प्रति तत्तदाकाङ्क्षाज्ञानानां कारणत्वमेवास्तु किमभेदसम्ब
न्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकत्वनिवेशनेनास्मिन्विषये पुनरपि विचारः प्रस्तूयते । नीलो घट इत्याद्याकाङ्क्षाज्ञानोत्तरमिदं ज्ञानमप्रमेति यत्र ज्ञानमस्ति तत्र निरुक्तशाब्दबोधवारणाय तत्तदाकाङ्क्षाज्ञानाऽव्यवहितोत्तरजायमानशाब्दबोधेऽप्रामाण्यज्ञानानास्कन्दितानामेव तत्तदाकाङ क्षाज्ञानानां कारणत्वस्य वाच्यतया यत्र नीलो घटः घटवभूतलम् इति समूहालम्बनात्मकाकाङक्षाज्ञानाऽव्यवहितोत्तरं नीलो घट इत्यंशेऽप्रामाण्यग्रहस्तत्र तदुत्तरजायमाने घटवभूतलमित्याकारकबोधे निरुक्तशाब्दबुद्धित्वाकान्तत्वेनाऽप्रामाण्यज्ञानानास्कन्दितनिरुक्ताकाङ्क्षाज्ञानानामसत्त्वेन व्यभिचारवारणाय विषयनिवेशस्यावश्यकत्वात् । निवेशिते च तस्मिन्निरुक्तस्थले न दोषः । नीलो घट इत्याकाङ्क्षाज्ञानाव्यवहितोत्तरंजायमाना"ग्रिमाऽभेदसम्बन्धेन नीलघटान्वयबोधम्प्रत्येव तादृशविशेषणविशिष्टकारणापेक्षायास्सवेन प्रकृते कार्यकारणयोरुभयोरसत्त्वेनाव्यभिचारात् । नच यत्र नीलो धट इति शानोत्तरन्तद्धर्मिकाऽप्रामाण्यग्रहस्तत्र शाब्दबोधानुदयेन आकाङ्क्षाज्ञानस्य तादृशशाब्दबोधोत्पादकत्वमेवेत्यस्योक्तत्वेन निरुक्तकारणसत्त्वेऽप्यापत्त्यभावेन तत्र शाब्दबोधवारणाय कारणतावच्छेदककोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशानावश्यकतया नीलो घटः घटवद्भूतलमित्यांशिकाऽप्रामाण्यग्रहास्कन्दिताकाङ क्षाज्ञानोत्तरजायमानघटवदभूतलमि. तिज्ञाब्दबोधे कार्यकारणभावयोरुभयोस्सत्वेन व्यभिचाराऽप्रसिद्धयाऽलंविषयकत्वनिवेशेनेति वाच्यम् ? यत्र भावि ज्ञानमप्रमेतिज्ञानोत्तरं नीलो घट इति शानन्तत्राकाङ्क्षाज्ञानात्ततीयक्षणे शाब्दबोधाऽभावो भवति न द्वितीयक्षणे आकाङ क्षाज्ञानाधिकरणप्रथमक्षणेऽप्रामाण्यज्ञानास्कन्दिताकाङ्क्षाज्ञानस्यैव सत्त्वेन अप्रामाण्यज्ञानानास्कन्दितत्व. स्य कारणतावच्छेदककोटावनिवेशे आकाक्षाज्ञानद्वितीयक्षणेऽपि शाब्दबोधस्य दुरुद्धरतया तद्वारणाय अप्रामाण्यज्ञानानास्कन्दितत्वस्यावश्यं वाच्यतया नीलो घटः घटवद्