________________
व्युत्पत्तिवादः तादृशान्वयबोधे प्रथमाविभक्तयन्तघटादिपदसमभिव्याहतप्रथमान्तनोलादिपदत्वमेवासमस्तनीलघटपदाद्याकाका । समासस्थले च घट पदाधहेणानन्तकार्यकारणभावकल्पनापेक्षया तादृशाकाङ्क्षाज्ञानादीनां पृथगेव कार्यकारणभावकल्पनायां लाघवात् । समाधानन्तु__ व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्रथा अपेक्षेतिप्रकृते न तादृशशुद्धधर्मावच्छिन्नकार्यापत्तिस्सम्भवति तद्व्याप्यतत्तत्कारणाऽव्यवहितोत्तरत्वविशिष्टाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावन्छिनविशेष्यताकशाब्दबुद्धित्वावच्छिन्नकार्योत्पादकतत्तदाकाङ्क्षाज्ञानादिसामग्रया अमावान्नीलस्य घट इत्यत्र नापत्तिः । ननु सामग्रीत्वस्य जात्यखण्डोपाध्यतिरिक्ततयाऽनुगताऽनतिप्रसक्तरूपताया अभावेन च विशेष्य तत्तत्कारणकूटस्यैव प्रवेशनीयतया एककारणकूटस्य प्रयोजकत्वेऽपरकारणकूटाजायमानशाब्दबोधस्थले व्यभिचारेण सकलकारणकूटस्य प्रयोजकत्वेऽप्रसिद्धता च व्याप्यधर्मावच्छिन्नकार्योत्पादकतत्तत्कारणकूटान्यतमस्वेनैव सामान्यधर्मावच्छिन्नकार्योत्पत्ती प्रयोजकताया उपगन्तव्यतया प्रथममेवान्यतमत्वेनैव कार्यकारणभावोऽस्तु अलमव्यवहितोत्तरत्वनिवेशेन 'अन्ते रण्डाविवाहश्चेदादावेव कुतो न ही तिन्यायात् । सूक्ष्मवेत्तारस्तु
तद्धर्मावच्छिन्नकार्यतापादने तत्तदाश्रयव्यक्तिनिष्ठकार्यतानिरूपितकारणतावदाकाङ्काज्ञानस्य कारणत्वेन नैवात्यापत्तिरिति तत्त्वमाहुः । किञ्च अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धि त्वावच्छिन्नम्प्रति अभेदसम्बन्धावच्छिन्ननीलत्वावछिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशान्दबुद्धित्वनिष्ठपर्यासापर्याप्साऽसाधारणावछेदकतानिरूपिताववच्छेद्यतावत्कार्यतानिरूपितकारणतावदाकाङ्क्षाज्ञानस्यैव कारणत्वान्नापत्तिरितिवर्णनात् । ननु सर्वेषामाकाङ्क्षाज्ञानानामन्यतमत्वेनैव कारणत्वमस्तु किमव्यवहितोत्तरत्वनिवेशेनेति चेन्न ? अन्यतमत्वस्य एकमेदविशिष्टाऽपरभेदविशिष्टाऽपरभेदविशिष्टान्यत्वरूपतया कारणतावच्छेदककोटौ जग. तः प्रवेशेन समस्तजगत्कारणतावच्छेदकत्वकल्पनापत्तौ गौरवात् । तत्प्रतियोगिकभेदविशिष्टेतत्प्रतियोगिकभेदविशिष्टतत्प्रतियोगिकभेदविशिष्टैवं रूपेण तत्प्रतियोगिकभेदविशिष्टतत्प्रतियोगिकभेदविशिष्टतत्प्रतियोगिकभेदविशिष्टैवं रूपेण वा अवच्छेदकत्वमिति विनिगमनाविरहेण कारणतावच्छेदकत्ववाहुल्यापत्तेश्च । उभयाऽभावमादाय पर्याप्त्यादिनिवेशस्याप्यावश्यकत्वेनात्यन्तगौरवाच्च । न च भेदकूटावच्छिन्नप्रतियोगिताकभेदस्वमेवान्यतमत्वमितिभेदे भेदवैशिष्टयानवगाहनान्न विनिगमनाविरहप्रयुक्तकारणतावच्छेदकानन्त्यमिति वाच्यम् ? तावताऽपि जगतत्प्रवेशत्वेन गौरवस्य दुरुद्धरत्वात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ रूढावितिवर्णने न काऽपि हानिः। यदि च अन्यतमत्वं