________________
शास्त्रार्थकलोपस्कृतः सामग्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिश्चित्करस्वादिति चेत् ? तथाविधान्वयबोधौपायकाकाङ्क्षाविरहात् । तथा हि, पनिवेशाऽभावेन सूर्यविषयकबोधस्थले इन्द्रविषयकोपस्थितेः इन्द्रविषयकबोधस्थले सूर्यविषयकोपस्थितेरेवं सर्वार्थे व्यभिचारापत्तौ महानुपप्लवः । विषयनिवेश तु स्वन्तसुन्दरपदसमभिव्याहृतस्वन्तहरिपदत्वरूपाकाङ्क्षाज्ञानाऽव्यवहितोत्तरजायमानसूर्यविषय. कशाब्दोबधम्प्रति स्वन्तसुन्दरपदसमभिव्याहृतस्वन्तहरिपदत्वरूपाकाङ्क्षाज्ञानङ्कारणमित्येवमिन्द्रविषयकबोधे विष्णुविषयकबोधेऽपि कार्यकारणभाव इति नानेकार्थकगवादिशब्देऽपि व्यभिचार इति ।
इति परीक्षालेखप्रकारः।
अथ शास्त्रार्थप्रकारः। ननु तत्तकारणाव्यवहितोत्तरत्वविशिष्ट स्वीयकार्यतावच्छेदकधर्मावच्छिन्नापादने एव तत्तदाकाङक्षाज्ञानरूपकारणस्यापेक्षिततया स्वीयकार्यतावच्छेदकशुद्धाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशान्दबुद्धित्वापादने तत्तत्कारणस्याऽप्रयोजकतया तत्तत्त्कारणाभावप्रयोज्यतत्तत्कार्याऽभावो वक्तुमशक्य इति । शुद्धतादृशकार्यतानिरूपितकारणतावन्नीलत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकयोग्यताज्ञानान्नीलस्य घट इत्यादावझेदान्वयापत्तिः। एवन्तात्पर्यज्ञानमासत्तिज्ञानञ्च विद्यते । त्रिषु कारणेषु सत्सु एकस्याकाङ्क्षाज्ञानरूपकार णविरहस्याऽकिञ्चित्करत्वम् । न चाऽप्रसिद्धिश्शङ्कया? नीलो घट इत्या दावेवापाद्यमानधर्मावच्छिन्नप्रसिद्धः ।
अथोत्तरम् , तत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानत्वविशिष्टतादृशशाब्दबुद्धिखावच्छिन्नम्प्रति योग्यताज्ञानविशिष्टतादृशाकाङ्क्षाज्ञानत्वेन कारणत्वाऽभ्युपगमात् । केवळयोग्यताज्ञानस्यापाद्यमानधर्मावच्छिन्नम्प्रत्यकारणत्वात् । तात्पर्यज्ञानासत्तिज्ञानयोः पृथक् कारणत्वाऽकल्पनात् आपादकाऽभावादेव नापत्तिः। कतिपयकारणसत्त्वे कार्याऽभावप्रयोजकजिज्ञासा हि आपत्तिः तदभावे तदभावरूपव्याप्तिरेकव्याप्त कारणतानियामकतया यदपावच्छिन्नाभावप्रयोजकाऽभावीयप्रतियोगितावच्छेदकं यद्रपन्तदुपावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकमितिव्याप्तिलाभात् तादृशयोग्यताकज्ञानाऽभावात्तादृशधर्मावच्छिन्नकायोऽभावस्य दृष्टतयाऽवश्यमेव तादृशयोग्यताज्ञानं केवलमपि कारणं स्यादिति तस्यैव प्रकृते ह्यापादकत्वात् । आकाङ्क्षाज्ञानविशिष्टतादृशयोग्यताज्ञानङ्कारणं योग्यताज्ञानविशिष्टतादृशाकाङ्क्षाज्ञानकारणमितिविनिगमनाविर____ आकाङ्क्षा-येन पदेन विना यत्पदस्य यादृशबोधाजनकत्वन्तत्पदविशिष्टतत्पदत्त्वं तादृशशाब्द. बोधजनकाकाक्षेति । वैशिष्टयञ्च तत्पदस्य तत्पदे अव्यवहितपूर्ववृत्तित्त्वाव्यवहितोत्तरत्वान्यतरसम्बधेन । 'यत्पदेन विना यल्याननुभावकता भवेत् आकाङ्का' कारिका० । ५ व्यु०