________________
व्युत्पत्तिवादः ।
एकत्वसंख्यार्थस्तस्य नीले नीलत्वे वाऽन्वये नोलो घटौ नीलो घटा इत्यादीनां पूर्वोक्तरीत्याऽभीष्टत्वे तु स्वन्तनीलपदसमभिव्याहृतावन्तघटपदसमभिव्याहारः कारणम् स्वन्तनीलपदसमभिव्याहृतजसन्तघटपदसमभिव्याहारः कारणम् । एवं स्वन्तनीलपदसमभिव्याहृतशसन्तघटपदसमभिव्याहारः । विनिगमनाविरहाद्वैपरीत्ये तु जसन्तघटपदसमभिव्याहृतस्वन्तनीलपदसमभिव्याहारः कारणम् । एवञ्च व्यासस्थले ८४ चतुरशीतिकार्यकारणभावाः । समासस्थले तु कार्यकारणभावद्वयम् सम्मेलने तु ८६ षडशीतिकार्यकारणभावाः अनन्ता वा कथमेतावदेवेति वाच्यम् ? इष्टापत्तेः । नच देवदत्तस्य प्रथमान्तनीलपदसमभिव्याहृतेत्याकाङ्क्षाज्ञानन्त दव्यवहितोत्तरक्षणे विष्णुमित्रस्य पूर्वक्षणीयद्वितीयान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानात्तादृशबोचे व्य भिचार इति वाच्यम् ? अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारता निरूपितघटत्वावच्छिन्नविशेष्यत्ताकशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनोलपदसमभिव्याहृतेत्यत्र
૬૪
स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङक्षाज्ञानाव्यवहितोत्तरजायमानशाब्द
बुद्धित्वावच्छिन्नम्प्रति इत्यत्र च आकाङक्षाज्ञानविशिष्टशाब्दबुद्धित्वावच्छिन्नम्प्रतीतिनिवेशः | वैशिष्ट्यञ्च स्वाऽव्यवहितोत्तरत्व स्वाधिकरणदेशवृत्तित्वोभयसम्बन्धेनेत्यापत्तिवारणात् ।
नच स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षाज्ञानाऽव्यवहितोत्तरजाय
मानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपित घटत्वावच्छिन्न विशेष्यताक
स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षा
शाब्दबुद्धित्वावच्छिन्नम्प्रति ज्ञानङ्कारणमित्येवं विधे कार्यकारणभावे
विषययोनीलघटयोः प्रवेशः किमर्थः १ कि
स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ क्षाज्ञानाऽव्य* हितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तथ टपदत्वरूपा काङक्षाज्ञानङ्कारणमित्येव कार्यकारणभावोऽस्तु अव्यवहितोत्तरत्वनिवेशेन सर्वापत्तिवारणात् । एतच्च संसर्गतावादिमीमांसकानुयायिमतम् । अत एव तत्र विषयनिवेशे प्रयोजनाभावेनेत्यादिना विषयाऽनिवेशो व्युत्पत्तिवादे विस्पष्टस्संसर्गतावादस्थापनप्रकरणे लाघवश्चेति वाच्यम् ? कार्यदलनिवेशं विनैव केवलस्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाङ्क्षाज्ञानादेव अभेदसम्बन्धावच्छिन्ननीलप्रकारकघटविशेष्यकशाब्दबोधस्यापि कदाचिदापत्या कार्याऽनियमप्रसङ्गापत्तेः । नच शाब्दबोध सहकारियोग्यताज्ञानतास्पर्यज्ञानासत्तिज्ञानानां यथा कार्यनियामकत्वं तथाकाङ्क्षाज्ञानस्याऽपि स्यादिति वाच्यम् ? एवमपि विषयनिवेशाऽभावेऽने कार्थक हरिपदघटितसुन्दरो हरिरितिवाक्यात्तापर्यानुरोधेन कचिदिन्द्र विषयकशाब्दबोधः कदाचित्सूर्यविषयकशाब्दबोधः कदाचिद्विष्णुविषयक शाब्दबोधस्तथाच स्वन्तसुन्दरपदसमभिव्याहृतस्वन्त हरिपदत्त्ररूपाकाङक्षाज्ञानाऽव्यवहितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तसुन्दर पदसमभिव्याहतस्वन्त हरिपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्येव कार्यकारणभावः ।
एवञ्च विषयविशे
तु