________________
शास्त्रार्थकलोपस्कृतः घटपदत्वरूपाकाङक्षाशानाऽव्यवहितोत्तरजायमानाऽभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाकाशाज्ञानं कारणम् । एवं विनिगमनाविरहितकार्यकारणभावेऽपि । तथाच व्यासस्थले एकविंशतिविभक्तीनां सत्त्वादेकप्रकारेणैकविंशतिः कार्यकारणभावाः, विनिगमनाविरहेऽपि एकविशतिः, सम्मेलने तु द्वाचत्वारिंशत्कार्यकारणभावाः। समासस्थले तु कार्यकारणभावद्वयम् । अनयोरपि गणनासम्मेलने चतुश्चत्वारिंशत्कार्यकारणभावास्सम्पद्यन्तेतराम् ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः । कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेश आवश्यक एव अन्यथा समासव्याससाधारण्येन नीलो घटः नीलघट इत्यादौ घटपदस्थाने तत्पर्यायकलशपदप्रक्षेपः नीलपदस्थाने तत्पर्यायकृष्णपदप्रक्षेपः । एवञ्च तद्धटिताकाङ्क्षाज्ञानानामपि परस्परबोधे व्यभिचारस्स्यादेतदर्थं कार्यतावच्छेदककोटिकाण्डे घटकत्वेनाव्यवहितोत्तरत्वनिवेश इति सिद्धान्तः।
ननु नीलो घटः नीलघट इतिवाक्यमेव न सम्भवति “उद्देश्यवचनं पूर्व विधेयञ्च ततः परमिति “यच्छब्दयोगः प्राथम्यं स्यादुद्देश्यस्य लक्षणम् । यच्छन्दयोगः पाश्चात्यं स्याद्विधेयस्य लक्षणमित्य"भियुक्तोक्तिभ्यां घटो नीलः घटनील इत्याकारकस्यैव प्रयोक्तमुचितत्वादिति चेन्न १ प्रतिज्ञावाक्याभिप्रायकत्वेन तदुक्तिसौष्ठवादन्यत्र तु सदिच्छानुरोधेन प्रयोगेऽविरोधात् ।
ननु ईश्वरेच्छाया ईश्वरेच्छीयोक्तविलक्षणविषयतायाश्च शक्तित्वे शास्त्रकृदभिमते मनुष्यस्साधारणैस्सा दुर्शयेति कथं सेच्छा बोधजनिकेति चेन्न ? सर्गादिभुवाम्महर्षि देवतानामीश्वरेण साक्षादेव कृतसङ्केतस्तद्व्यवहाराचास्मदादीनामपि सुग्रहस्सङ्केत इति शिष्टोक्तेः । वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ यः कल्पस्स कल्पपूर्वः यथापूर्वमकल्पयदि ति श्रुतेश्च । पूर्वोक्तकार्यकारणभावे समभिव्याहृतत्वञ्च नियतपूर्वापरीभावत्वमिति केचित् । अस्य लक्षणस्य श्लोकघटकपदान्तरादौ व्यभिचरितत्धेनावाच्यत्वात् । अतः पदविशिष्टपदत्वमेव समभिव्याहारत्वम् । वैशिष्ष्टयञ्च स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व स्वभिन्नत्वमित्युभयसम्बन्धेन । समन्वयश्च नीलो घट इत्यादौ विस्पष्ट एवेत्यलम् ।
तथाच नीलस्य घट इत्यत्रैतेषामाकाङ्क्षाजानकार्यकारणभावानामभावेन विरुद्धविभक्तिकत्वेन नाऽभेदाऽन्वयबोधः । नच नीलस्य घट इत्यत्र वैशिष्ट्यं षष्ठयर्थः एकोनशतं षष्ठया इतिभाष्यात् तथाच नीलविशिष्टो घट इति शाब्दबोधस्स्यादिति वाच्यम् ? लोके तादृशप्रतीत्यभावात् तादृशषष्ठयर्थस्य शिष्टरस्वीकृतत्वाच्च । ननु चतुश्चत्वारिंश. देव कार्यकारणभावाः कथम् १ नीलो घट इत्यादौ विशेषणवाचकपदोत्तरविभक्तरपि