________________
7
व्युत्पत्तिवादः। च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दमुद्धित्वावच्छिन्नम्प्रति स्व. न्तघटपदसमभिव्याहृतस्वन्तनीलपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं कारणम् । एवम् औ जस् अम् औ शस् इत्यादिष्वपि । अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति औविभक्त्यन्तनीलपदसमभिव्याहृती विभक्त्यन्तघटपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं कारणम् । विनिगमनाविरहात् अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नं प्रति औविभवत्यन्तघटपदसमभिव्याहृतौ विभक्त्यन्तनीलपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं कारणम् । एवं जसन्तनीलपदसमभिव्याहृतजसन्तधटपदत्वरूपाकाङ्क्षाशानं कारणम् । जसन्तघटपदसमभिव्याहृतजसन्तनीलपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं कारणम् । एवमन्यास्वपि विभक्तिषु । नीलघट इत्यादौ समासे विभक्तिलोपे स्वन्तजसन्तत्वाद्यभावेन पूर्वोक्तकारणाऽप्रवृत्तौ कथं तत्राभेदसंसर्गकश्शाब्दबोध इति विचिकित्सायामभेदपम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति नीलपदाऽव्यवहितोत्तरवर्तिधटपदत्वरूपाकाङ्क्षाज्ञानं कारणम् । घटपदाऽव्यवहितोत्तरवर्तिनीलपदत्वरूपाकाङ्क्षाज्ञानं कारणमिति विनिगमनाविरहात् कार्यकारणभावद्वयम् ।
ननु समासस्थले नीलपदाऽव्यवहितोत्तरवर्ति घटपदत्वं घटपदाव्यवहितपूर्ववर्ति नीलपदत्वमेव वा यद्याकाङ्क्षाज्ञानं कारणमितिनियमस्तर्हि मूलग्रन्थानुपपत्तिस्तथाहि, केवलनिर्विभक्तिकन्याकरणाऽनिष्पन्नशुद्धनीलघटघटनीलेतिवाक्यादप्यभेदान्वयबोधापत्ति राकाङ्क्षाज्ञानस्य सत्त्वादिति चेन्न १ अनुमिताविव शाब्दबोधेऽपि विधेयतानियमस्सार्वजनीनः । विधेयत्वञ्च अपूर्वांशस्यैव भवति प्रकृते निर्विभक्तिकनीलघटेतिसमुदाये उद्देश्यत्वेनाश्रीयमाणघटविशेषणत्वेनैव नीलपदार्थस्य प्रवृत्तिः प्रकारताप्रयोजकमेवात्र नीलपदन्नतु विधेयताप्रयोजकन्तथाचाऽपूर्वत्वाऽसम्भवेन विधेयत्वाऽसम्भवः । निर्विभक्तिकनीलघटपदे विभक्तिविशिष्टत्वेनानुसन्धाने विभक्त्यन्तत्वेन वा लुप्तविभक्तिस्मरणेन वा विधेयीभवदेकत्वादिप्रकारकशाब्दबोधस्यैव सिद्धान्तितत्वेन निर्विभक्तिके तादृशाकाजाज्ञानाप्रवृत्त्या दोषपरिहारादित्याशयः ।
ननु एषु कार्यकारणभावेषु परस्परम्व्यभिचारः अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वमेव कार्यतावच्छेदकम् तच्चोक्त कार्यकारणभावमात्र पर्याप्तम् । स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदस्वरूगकाङ्क्षाज्ञानस्य औविभक्त्यन्तनीलपदसमभिव्याहृतौ विभक्त्यन्तघटपदसमभिव्याहारेऽभावः तस्य च जसन्तनीलपदसमभिव्याहृतजसन्तघटपदसमभिव्याहारेऽभावः । एवं सर्वत्र । परन्तु कार्यतावच्छेदकावच्छिन्नस्य सर्वत्र सत्त्वात् कारणतावच्छेदकावच्छि. न्नस्य विलक्षणत्वात् सर्वत्राऽसत्त्वेन हेतोः कार्यतावच्छेदकानाक्रान्तत्वदोषेण कथङ्कारमुद्धार इति प्रश्नेऽव्यवहितोत्तरत्वनिवेशस्तथाहि, स्वन्तनीलपदसमभिव्याहृतस्वन्त.