________________
शास्त्रार्थकलोपस्कृतः
६१
अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसम्भवात् कथन्न नीलघटयोरभेदान्वयबोधः ।
तित्ववेति । वैयाकरणमते स्वप्रकृतिकत्वम् स्वनिष्ठोद्देश्यता निरूपितविधेयतावत्त्वम् | परन्तु स्वमते लक्षणमाह ग्वाऽव्यवहितोत्तरत्वेनेति ।
अत्रैव प्रसङ्गात् प्रकृतित्वम् प्रत्ययत्वञ्च विचार्यते ।
प्रकृतित्वम् – “प्रत्ययः” इत्येतच्छब्दाधिकारीयकार्यनिष्ठविधेयतानिरूपितोद्देश्यताश्रयत्वम् ।
निरूपितविधेयताश्रयत्व
प्रत्ययत्वञ्च-प्रकृतिविशिष्टत्वम् वै० च स्वसमभिव्याहृतत्व स्वनिष्ठोद्देश्यतास्वार्थान्वितार्थप्रत्यायकत्वमित्येतत्रितयसम्बन्धेन । एवं
लक्षणे नाव्याप्त्यतिव्याप्त्यसम्भवादिदोषावकाश इति ।
अथ नालम्य घट इत्यादावपांति ।
अस्यायमाशयः, बाधाऽभावो योग्यता । अत्र बाघनिश्चयश्च अभेदेन नीलाभाववान् तथा च एवं विधबाधनिश्वयाऽभावोऽस्त्येव नोलस्य घट घट इत्याकारक एव । इत्यत्र । तथाहि, नीलपदजन्यनीलोपस्थितिघटपदजन्यघटोपस्थितिनीलपदसमभिव्याहृतघटपदत्वरूपाऽकाङ्क्षाज्ञानम्, नीलस्य घट इतिवाक्यमभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधञ्जन यत्वित्याकारकतात्पर्यज्ञानम्, नीलपदसन्निहितं घटपदमित्याकारकासत्तिज्ञानमेवं विधानां चतुर्णां शादबोध कारणानां सत्वेन कथन्नाऽभेदसंसर्गकनीलप्रकारकघट विशेष्यकश्शाब्दबोध इति प्रश्नाशयः ।
नच अभेदान्वयबोधम्प्रति स्वसमानविभक्तिकपदजन्योपस्थितिः कारणमिति नीकिस्य घट इत्यादौ विरुद्धविभक्तिकत्वान्नाभेदान्वयापत्तिरिति वाच्यम् ? सामग्रीसत्त्वे अवश्यं कार्य्यमितिनियमः ! व्यापकधमांवच्छिन्न कार्यत्वावच्छिन्नम्प्रति व्याप्यधर्मावच्छिन्न कार्योत्पादक सामग्रया अपेक्षेतिनियमः । कार्यसत्तायाः कारणसामग्रीसत्ताव्यापकत्वमिति नियमः । यथा केनचिज्ज्योतिश्शास्त्रज्ञेन घोषणा कृता अस्मिन्वर्षे वृष्टिर्नभविष्यतीति वर्षाप्रबलहेतुमेघादिसमवधाने वृष्टेरवश्यम्भावादिदर्शनेन ज्योतिश्शास्त्रीयनियमभङ्गस्याsकिञ्चित्करत्वन्तथाऽभेदान्वयबोधम्प्रति स्वसमान विभक्तिकत्वमितिनियमस्याकिञ्चित्करत्वे क्षतिविरहात् । आकाङ्क्षाविरहादिति - अन्वयबोधौपयिक इत्यस्थान्वयबोधजनक इत्यर्थः । तथाहि प्रथमापदं श्रावणप्रत्यक्षविषयतावच्छे दकधर्मवश्वादिपरमेव । प्रथमात्वेनाऽज्ञानदशायां नीलो घट इत्यादिवाक्यादपि शाब्दबोधाबाडपत्तेः । अतः अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छि
न्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वरूपाऽकाङ्क्षाज्ञानं कारणम् । विनिगमनाविरहात् अभेदसम्बन्धावच्छिन्न नीलत्वाव