________________
६०
व्युत्पत्तिवादः एवं जात्याकृतिव्यक्तयः पदार्थ इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्ततोपपत्तिः । प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य। प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाविवक्षितत्वात्प्रमाणपदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपितामहादीनां संहितानामे करूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोह श्यत्वरूपदेवतात्वम् । उद्देश्यतोवच्छे. दकभेदेनैव उद्देश्यताभेदात्। तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक। स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दरमित्यादौ विशेष्यपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः । तत्र विभक्तेरनुसन्धान विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्तथव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वम् । तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तरसत्वेऽपि न क्षतिः ।। रः कारणम् । अरणिवह्नित्वावच्छिन्नम्प्रति मन्थनङ्कारणम् । मणिवह्नित्त्वावच्छिन्नम्प्रति तरणि किरणसंयोगः कारणमिति स्वातन्त्र्येणैव हेतुत्वन्न परस्परसहकारित्वम्प्रकृते त्रयस्समुदिता हेतुरित्यतो वैलक्षण्यमस्त्येवेत्याशयः । एव जात्याकृतिव्यक्तया पदार्थ इति--
नन्वस्मिन्सूत्रे यदीश्वरेच्छारूपशक्तिं गृहीत्वा पदार्थ इत्यत्रैकत्वान्वयो ग्रन्थोक्तरीत्या वक्तमहः परन्तु सन्मात्रविषयिण्या भगवदिच्छायास्सकलपदार्थगोचरत्वेन सामान्यत एकत्वमेव एवञ्च यथा “व्यक्त्याकृतिजातयः पदार्थ" इत्यत्रैकत्वान्वयेन पदार्थइति भवति तथैव देवदत्तयज्ञदत्तद्रव्यघटाः पदार्थ इत्यपि रूपमापद्येत? युक्तेस्तौल्यात् । नचेश्वरेच्छीयविषयतारूपा शक्तिस्तस्यामेकत्वान्वयः पूर्वोक्तलक्ष्ये ईश्वरेच्छीयविषयताया अभावेन नापत्तिरिति वाच्यम् ? तथासति एकत्वाश्रयीभूतोक्तविषयत्वस्य व्यक्तिआकृतिजातिपदार्थत्रयासाधारण्याऽभावेन गौतमसूत्रधटपदार्थ इतिप्रयोगवृषोत्सर्गापत्तेः । एवञ्चापत्तिग्रस्तः पूर्वोक्तप्रयोगः कथन्नेति प्रश्नकत्तु राशयः। शिष्टप्रयोगे तथासत्त्वेऽप्यशिष्टप्रयोगे तथा व्यवहाराऽभावात् । किञ्च गौतमप्रयोगलौकिकप्रयोगयोवैषम्यम् । गौतमसूत्रस्य परार्थबोधने तात्पर्यम् । लौकिकप्रयोगस्य तु स्वार्थबोधने तात्पर्यम् । किञ्च यदि घटपटमठाः पदार्थ इति वाक्ये एकत्वान्वये तात्पर्यमिष्यते तदा त्विष्ट एवायम्प्रयोगः । ___ ननु "विंशत्याद्यास्सदैकत्व” इत्यादिव्याख्या तु प्रकरणप्राप्तेति, अवतणिका तु स्वप्रकृतिकविभक्तिसजातीयेति तत्र सिंहावलोकनन्यायेन पुनरवकाशे आह -स्वप्रक