________________
शास्त्रार्थ कलोपस्कृतः
एवं - त्रयः समुदिता हेतुरित्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपर तादृश समुदायत्वान्वित मेकत्वं
एकवचनार्थः ।
अत एव शक्तयादीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः । तथा सत्येषामेकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्रितयपर्याप्त समुदायत्वस्थ कार्योत्पत्तिप्रयोजकतानवच्छेदकतया त्र्याणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः ।
कारतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकताकत्वादापत्तिस्तदवस्थैवेति प्रकृतशाब्दबोधोपधायकप्रकारतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकताकभेदस्य
५९
तेषां
वाच्यम् १ स्वीका
रेणाऽनुपपत्तिविरहात् ।
ननु
आख्यातार्थसख्यानिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति प्रथमान्तपदजन्योपस्थितिः कारणमितिनियमेन देवदत्तो गच्छति देवदत्तः पचति देवदत्तेन तण्डुलः पच्यते इत्यादिप्रथमान्तपदसत्त्वेन देवदत्ततण्डुलादावाख्यातार्थसंख्याया अन्वयेन सिद्धावपि देवदत्तेन सुप्यते देवदत्तेन गम्यते अन्यैर्गम्यत इत्यादौ प्रथमान्तपदाऽभावेनाख्यातार्थ संख्याया अन्वयाऽभावेनैकवचनमुत्सर्गतः करिष्यतं इत्यादिशाब्दिकनियमेन प्रत्ययोत्पत्तौ यथा तत्रैकत्वाऽविवक्षयैवैकवचनस्य साधुत्वमेवं सम्पन्नो व्रीहिरित्यादावपि संख्याया अविवक्षायामपि औत्सर्गिकै वचनत्वं सुतरां सिद्धमिति व्रीहित्वजातौ संख्याया अन्वयेन कथं गौरवाश्रयणमिति तन्निरस्यति तपांति । तत्र प्रथमान्तपदाऽभावेन निरर्थकत्वेऽपि सर्वत्र तथा स्वीकारे मानाऽभावेन व्रीहित्वजातावन्वयस्वीकारे क्षतिविरहः । तत्र संख्याबोधोऽनुभवगम्य इति । एवं त्रयस्समुदिता हेतुरिति ।
कार्यम् काव्यम् उत्पादः उत्पत्तिस्तत्प्रयोजकता शक्तिनिपुणताऽभ्यासानां त्रयाणां समुदितानां समुदाये तत्प्रयोजकतावच्छेदकत्वं समुदायेऽसमुदायत्वावच्छिन्नसमुदायपरमत्र हेतुपदमिति तस्मिन्नेव समुदायत्वे एकत्वान्वयः । तृणारणिमणिन्यायेन यथा वह्निप्रति पार्थक्येन तृणस्य कारणत्वम् अरणेः मणेश्च तथाऽत्र न व्यवहारः । किन्तु काव्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वाश्रयत्वन्तत्तात्पर्येण हेतुरित्येकवचनान्त मेव ।
एवं “जात्याकृती” तिसूत्रेऽप्येकवचनान्तत्वसङ्गतिः । " प्रत्यक्षानुमाने” तिसूत्रे प्रत्यक्षम्प्रमाणम् अनुमानम्प्रमाणम् उपमानम्प्रमाणम् शब्दः प्रमाणमितिपार्थक्येन प्रामाण्याद् बहुवचनमुपपद्यते । एवं विशेषणवाचकदेवतापदस्याऽपि बहुवचनान्तत्वमेव ज्यायस्तरम् । तृणारणिमणिन्यायेनेति ।
अत्र क्वचित् तृणेन वह्निर्जन्यते क्वचिदरणिना कचिन्मणिना तृणस्य सहकारी फूस्कारः । अरणेर्मन्थनम् मणेस्तरणिकिरणसंयोगः । तार्णवहित्वावच्छिन्नम्प्रति फूल्का