________________
व्युत्पत्तिवादः
तत्र च सा
ख्यातस्थळे गत्यन्तरविरहेण विभक्तेर्निरर्थकत्वोपगमात् । र्थकत्वापगमसम्भवे तत्परित्यागस्यानुचितत्वात् । सति तात्पर्य तद्बोधम्यानुभविकत्वाचेति ।
५८
हित्वन्तद्वान् व्रीहिस्तदितरः क्षेत्रान्तरस्थसस्यादिस्तदवृत्तिर्या सम्पत्तिस्तदवच्छिन्नाSभेदवत्ता व्रीहौ न सस्यान्तर इति । अनयैव रीत्या अत्र घटोऽस्तीत्यत्राऽपि वारणम् । तथाहि संख्यारूपैकत्वविशिष्टो घट इति बोधः । एकत्ववैशिष्टयश्च घटे स्वाश्रयवत्त्व_स्वाश्रयप्रकृत्यर्थतावच्छेदकवदितराऽवृत्त्येतद्देशवृत्तिसत्ताश्रयत्ववत्त्वोभयसम्बन्धेन । स्वमेकत्वन्तदाश्रयो घटत्वन्तद्वत्त्वं घटे इत्येकसम्बन्धः । स्वमेकत्वन्तदाश्रयप्रकृत्यर्थतावच्छेदकम् घटत्वं तद्वान् घटस्तदितरः पटादिस्तदवृत्तित्वे सत्येतद्देशवृत्तिसत्ताश्रयत्वं घटत्वे तद्वत्त्वं घटे इति द्वितीयसम्बन्धसंघटनम् । एवं विधाकाङ्क्षाबोधकं वाक्यघटकमत्रेतिपदन्तात्पर्यं वा । एवन्निर्वाहेऽलमेकत्वपरिष्कारेण ।
किञ्च -
पशुना यजेतेत्यत्र यजधातोः पशुविशिष्टयागे लक्षणा कार्या । बै०२ ० स्वकरणक त्व स्वभिन्नपश्वकरणकत्वोभयसम्बन्धेन । एतादृशलक्षणातात्पर्यग्राहिका तृतीयाविभक्तिः । स्वम्पशुस्तत्करणकत्वमेव यागे, स्वं पशुस्तभिन्नो द्वितीयः पशुस्तत्क रणकत्वन्न यागे इत्यनेकपशु कर णकयागान्नादृष्टसिद्धिः ।
सूक्ष्मवेत्चारस्तु-----
एकत्वविशिष्टयागकरणत्वमेव सजातीयद्वितीयराहित्यम् | वैशिष्टयञ्च स्वाश्रयपशुकरणकत्व स्वाश्रयनिष्ठभेदप्रतियोगिपश्वकरणकत्वोभयसम्बन्धेन । स्वमेकत्वं तदाश्रयः पशुर्यागीय एव नान्यस्तत्करणकत्वमस्ति । स्वमेकत्वन्तदाश्रयो यागीयः पशुस्तन्निष्ठो भेदः कस्यचित् अन्यस्य यज्ञभूमिबहिर्भूतस्य पशोः भेदप्रतियोगिपशुरन्यस्तदकरणकत्वमपि यागे इति सजातीयद्वितीयराहित्यम्बुवन्ति ।
ननु पशुना यजेतेत्यत्र इष्टे पशौ साजात्याश्रिते यज्ञाई एकत्वविशिष्टे संयोगसम्बन्धेन एतत्पशुगतैकत्ववान्न तत्पशुगतैकत्ववान्नेति संयोगसम्बन्धावच्छिन्नावच्छेदकताकभेदस्य विद्यमानत्वेन भेदप्रतियोगितानवच्छेदकत्वाऽसंघटनेन कथमेकपशुकरणकयागाददृष्टसिद्धिरिति चेन्न ? समवायसम्बन्धावच्छिन्नावच्छेदकताकभेदस्यैव स्वीकारात् । नच रूपमस्तीतिवाक्ये एकत्वस्य स्वरूपसम्बन्धेनैव रूपपदार्थेऽन्वयो न तु समवायेनेति कथन्तत्रान्वय इति वाच्यम् १ स्वरूपसमवायस्वाश्रय प्रकृत्यर्थतावच्छेदकत्वान्यतमसम्बन्धावच्छिन्नावच्छेदकताकभेदस्वीकारेणाऽदोषात् । ननु अन्यतमत्वावच्छिन्नत्वात्पशौ स्वरूपसम्बन्धावच्छिन्नावच्छेदकताकभेदस्य सत्त्वेन तत्रानुपपत्तिर्दुर्वा रैवेति चेन्न ! एकत्वनिष्ठप्रकारतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकताकभेदस्यैव स्वीकारेण संयोगेनैतत्पशुगतैकत्ववान्नेतिभेदमादायापत्तेर्व • तुमशक्यत्वात् ।
नचैवमपि स्वरूपसमवायादिसम्बन्धावच्छिन्नावच्छेदकताया अपि एकत्वनिष्ठेप्र