________________
शास्त्रार्थकलोपस्कृतः साजात्यं स्वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवस्वरूपेण । अतोऽत्र घटोऽस्तीत्यादौ घनिष्ठभेदप्रतियोगितानव. च्छेदकैकत्वप्रसिद्धावपि न क्षतिः । एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति । तस्य च प्रसिद्धस्वात् ।
तथाच प्रकृते सम्पन्नो ब्रीहिरित्यादौ यद्यन्नान्तरं सम्पन्नं स्यात्तदा सम्पन्नत्वेन व्रीहिसजातीयान्नान्तरस्य सत्त्वात् तत्र वर्तते यो व्रीहिभेदस्तत्प्रतियोगितावच्छेदकं व्रीहित्वगतैकत्वं स्यात् । यदि च अन्नान्तरन्न सम्पन्नन्तदा सम्पन्नत्वेन रूपेण बीहिसजातीयस्यैवाऽभावात्स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकमेव जातं व्रीहित्वगतैकतन्तदेव सजातीयद्वितीयरहितत्वम् । एवं विधैकवचनार्थस्वीकारादेव पशुना यजेतेत्यादावेकपशुकरणकयागादेवाऽदृष्टसिद्धिस्तथाहि, अत्र वाक्ये स्वम्पशुस्तत्सजातीयो द्वितीयः पशुर्यदि यागे स्यात्तदा द्वितीयपशुनिष्ठस्य एतत्पशुनिष्ठमेकत्वं भेटप्रतियोगितावच्छेदकं स्यात्परन्तु यागे द्वितीयपशोरभावे तु एतत्पशुनिष्ठभेदस्य प्रतियोगिताऽनवच्छेदकमेव जायत इति तदेव सजातीयद्वितीयरहितत्वमेवञ्चैकपशुकरणकयागाददृष्टसिद्धिरिति तात्पर्यम् ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः। ननु यागस्थले कार्यान्तरार्थबद्धपशौ तन्निष्ठो य एतत्पशुभेदस्तादृशभेदप्रतियो. गितावच्छेदकमेवैतत्पशुनिष्ठमेकत्वन्तस्यापि पशोरेतत्पशुसजातीयत्वात् । किञ्च यागी. यघृतादिसामग्रीणामपि यागसम्बन्धित्वेनैव धर्मेणैतत्पशुसाजात्याद् यागसम्बन्धिधृतादिष्वेतत्पशुभेदस्तादृशभेदप्रतियोगितावच्छेदकमप्येतत्पशुनिष्ठमेकत्वं स्यादेव । तयाच तत्पशुनिष्ठैकत्वस्य कथं स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वमिति प्राशय परिष्करोति साजात्यश्चेति । यजेत स्वर्गकाम इत्यत्र स्वपदेन वर्तमानलिविभक्तिस्तत्समभिव्याहृतः पदार्थो यागपदार्थस्तत्संसगित्वविशिष्टं (ससर्गित्ववैशिष्टयञ्च प्रकृत्यर्थतावच्छेदके सामानाधिकरण्यसम्बन्धेन बोध्यम् ) यागसम्बन्धित्वसमानाधिकरणं यत्प्रकृत्यर्थतावच्छेदकं पशुत्वं तद्वत्त्वेनोभयरूपेणैव साजात्यम् । कार्यान्तरार्थबद्ध - पशौ पशुत्वस्य सत्वेऽपि यागसंसर्गित्वाऽभावः । घृतादीनां यागसंसर्गित्वेऽपि प्रकृ. त्यर्थतावच्छेदकपशुत्वाऽभार इतिद्वाभ्यां विशेषणाभ्यामुभयोावृत्तिरिति न साजात्यव्यभिचारः। एतत्साजात्यपरिष्कारादेव अत्र घटोऽस्तीत्यादौ घटानामनेकत्वेन परस्परभेदा नीलघटादिषु पीतघटादिभेदस्य तद्गतैकत्वस्य भेदादयं घटस्तद्घटनिष्ठैकत्वान्नेतिप्रतीतिदर्शनेन एकत्ववद्घटनिष्ठा या भेदप्रतियोगिता तदवच्छेदकमेवैकत्ववद्घटनिष्ठमेकत्वञ्जातन्नानवच्छेदकमिति भेदप्रतियोगिताऽनवच्छेदकैकत्वाऽप्रसिद्धेरप्यभाव.। तथाहि अत्र घटोऽस्तीत्यत्र स्वपदेनैकवचनान्तं गृह्यते समभिव्याहृतत्त्वञ्च तत्तत्पदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वे सति तत्तद्भिन्नपदत्वम् । तत्समभिव्याहृतम्पदमत्रेति