________________
५४
व्युत्पत्तिवादः यत्त संपन्नो ब्रीहिरित्याहावेकवचनोपस्थितानि नानैकत्वानि प्रत्येक नानानीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावकत्वभानोपगमो नि. रर्थक इति ।
तदसत् । यतः स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थः न त्वेकत्वमात्रम् । तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात् , अनुपयोगाच्च । अत एव पशुना यजेत इत्यादौ पशुनिष्ठतादशैकस्वस्य विवक्षितत्वाद् अनेकपशुकरणकयागान्नादृष्टसिद्धिः।। सापेक्षत्वम्परन्तु संयोगाऽभावो विभागः विभागाऽभावस्संयोग इत्यत्र विनिगमनावकल्येनोभयोः पदार्थयोरखण्डोपाधिवदतिरिक्तत्वमेवेति सूक्ष्मतत्त्ववेत्तारः । ___ यत्तु सम्पन्नो बाहिरिति-ननु सम्पन्नो व्रीहिरित्यत्रैकत्वसंख्याया न व्रीहित्वजातावन्वयो येन "पदार्थः पदार्थेनान्वेती"तिन्याये सङ्कोचादिप्रपञ्चः। ब्रीहिरित्यत्र सुविभक्त्या एकस्यैवैकत्वस्योपस्थितिरपि न येनानेकव्रीहिष्वेकैफत्वस्य बाधः किन्तु एकवचनसुवि. भक्त्या अनेकैकत्वोपस्थितिरनेकेषामेकत्वानामनेकबीहिष्वन्वये न कोऽपि विरोध इत्याशयेनाह यतिवति । पदार्थतावच्छेदके स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन पदार्थे वाऽन्वय इतिपक्षद्वयेऽपि जात्येकत्वभानोपगमो निरर्थक इत्याशयः । निरस्यति - दमदिति । सम्पन्नो व्रीहिरित्यत्रैकवचनसो.कत्वसंख्यारूपोऽर्थः, तस्य वस्तुमात्रसाधारण्येन अर्थात्केवलान्वयित्वेनार्थत एव लाभात् । संख्यारूपैकत्वस्य नोपयोगोऽर्थात् ब्री. हिविशिष्टक्षेत्रप्तमीपवर्तितीहिसजातीयोतानान्तरसम्पन्नत्वव्यावृत्तिरेव सम्पन्नी व्रीहिरिति वक्तस्तात्पर्य विषयीभूता सा एकरवसंख्यान्वयित्रीहिसम्पन्नत्वेऽपि वीहिभिन्नान्नान्तरस्यापि तत्समीपवतिक्षेत्रीप्तस्य सम्पन्नत्वे न कोऽपि वाधकः, ग्रन्थोक्तसजातीय. द्वितीयराहित्यरूपैकत्वार्थे स्वीकृते त तादृशैकत्वान्वयित्रीहीणां सत्त्वेन सम्पन्नत्वे ब्रीहिसजातीयोप्सान्नान्तरसम्पन्नत्वव्यावृत्तिस्सुतरां लभ्यते । तथाच नैकत्वमेकवचनार्थोऽपि तु स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वरूपं यत्स्वसजातीयद्वितीयरहितत्वन्तदेवैकवचनार्थः । संघटनप्रकारश्चेत्थम्, अत्र घट इत्यादौ भूतले एकघटसत्त्वदशायां स्वं प्रकृत्यर्थ एतद्देशवृत्तिर्घटस्तत्सजातीयस्स एवान्यस्याऽभावात् तन्निष्ठ एकपटादिभेदस्तत्प्रतियोगितावच्छेदकं तन्निष्ठकस्वमर्थात्पटादिनिष्ठैकत्वम् । अनवच्छेदकञ्च तद्घटनिष्ठमेकत्वन्तदेव सजातीद्वितीयरहितत्वं घटपदोत्तरमेकवचनार्थः। एतद्देशे बहुघटसत्त्वदशायान्तु स्वभ्प्रकृत्यर्थ एतद्देशवृत्तिर्घटस्तत्सजातीयो द्वितीयोऽपि घटस्तनिष्ठैकत्ववदेतद्घटभेदस्तत्प्रतियोगितावच्छेदकमेवैतद्घटनिष्ठमेकत्वमित्यनेकघटतात्पर्येण न अत्र घट इति प्रयोगः।