________________
शास्त्रार्थकलोपस्कृतः
५३ मितिज्ञानेन प्रतिबन्धकत्वसिद्धये प्रतिबन्धकतावच्छेदककोटावनाहार्यत्वनिवेशः। घटव
भूतलमितिशुद्धज्ञानस्याऽप्रामाण्यज्ञानानास्कन्दितस्य घटाऽभाववद्भूतलमिति ज्ञानेन प्रतिबन्धकत्वसिद्धयेऽप्रामाण्यज्ञानानास्कन्दितत्वनिवेशः। संयोगेन घटक्भूतलमितिज्ञानस्य समवायेन घटाऽभाववद्भूतलमितिज्ञानेन प्रतिबन्धकत्ववारणाय प्रतिबध्यप्रतिबन्धकोभयकोटौ तत्तत्सम्बन्धावच्छिन्न त्वनिवेशः। द्रव्यवद्भूतलमितिज्ञानस्य धटाsभाववभूतलमितिनिश्चयेन प्रतिबन्धकत्ववारणाय प्रतिबध्यप्रतिबन्धकोभयकोटौ तत्तधर्मावच्छिन्नत्वनिवेशः ।
अत्रैव प्रसङ्गात् प्रतिबध्यप्रतिबन्धकभावनिर्णयः ।
तद्वत्ताबुद्धिम्प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वमित्येकः प्रकारः ? तद्वत्ताजुद्धिम्प्रति तदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वमिति द्वितीयः प्रकारःरतद्वत्ताबुद्धिम्प्रति तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयस्य प्रतिबन्धकत्वमिति तृतीयः प्रकार:३तद्वत्ताबुद्धिम्प्रति तदसमानाधिकरणधर्मवत्तानिश्चयस्य प्रतिबन्धकत्वमितिचतुर्थःप्रकारः४तद्वत्ताबुद्धिम्प्रति तद्व्यापकतावच्छेदकतया गृहीतधर्मावच्छिन्नाऽभाववत्तानिश्चयस्य प्रतिबन्धकत्वमितिपञ्चमः प्रकारः५ । हृदो वह्निमान् हृदो न वह्निमान्१ हृदो वह्निमान् हृदो वह्नयभावव्याप्यवान् २ जलवान् वह्नयभाववान् हृद इति निश्चयविशिष्टस्य जलवान् हृद इतिज्ञानम्प्रति प्रतिबन्धकत्वमिति३ । वह्वयसमानाधिकरणजलवान् हृदः४ हृदो धूमवानितिबुद्धिम्प्रति धूमव्यापकतावच्छेदकतया गृहीतं यद् वह्नित्वन्तादृशवह्नित्वावच्छिन्नाऽभाववान् हृद इति निश्चयस्य प्रतिबन्धकत्वमिति५क्रमेणोदाहरणानि । कार्यत्वावच्छिन्नम्प्रति तु कामातुराणां कामिनीजिज्ञासा प्रतिबन्धिका । कार्यविशेषम्प्रति तु क्वचित् कस्यचित्पदार्थस्य प्रतिबन्धकत्वम् । यथा दाहत्वावच्छिन्नम्प्रति मणेः प्रतिबन्धकत्वम् । विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रन्थाः प्रतिबन्धकत्वम् । समानविषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वम् इत्यादि। प्रतिबन्धकत्वञ्च तद्धर्मावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नावच्छेदकताश्रयधर्मवत्त्वम्। तथा च सम्पन्नो व्रीहिरित्यत्र प्रकृते एकत्ववद व्रीहित्वमितिनिश्चयस्य न प्रतिबध्यत्वन्नापि प्रतिबन्धकत्वं कस्यचिदपि ज्ञानस्य । ब्रीहित्वत्वेनानुपस्थितत्वात्पूर्वोक्ततत्सम्बन्धावच्छिन्नतद्धर्भावच्छिन्नेति प्रतिबध्यप्रतिबन्धककार्यकारणभावमूलकनियमाऽप्रवृत्या वेदाः प्रमाणमित्यादी स्वाश्रयप्रकृत्यर्थतावच्छेटकवत्त्वसम्बन्धेनैव स्वाश्रयमितिकरणत्ववत्वसम्बन्धेन प्रमाण एवैकत्वसंख्यान्वय इति । पकत्वाश्रयप्रमाणतावच्छेदकवत्त्वसम्बन्धेनैकत्वविशिष्टं यत्प्रमाणन्तदभिन्ना घेदा इत्याशयः । तथा च पदार्थः पदार्थेनेतिन्याये सुबर्थेतरत्वादिरीत्या न सङ्कोच उक्तप्रकारान्तरेणाभीष्टसिद्धेरित्यलम् । अत्र किञ्चित् घटवद्भूतलम् वृक्षात्पर्णम्पततीत्यादौ संयोगपदार्थविभागपदार्थयोर्यद्यपि