________________
५२
व्युत्पत्तिवादः तावच्छेदकतया सम्भाव्यमानेन रूपेणेतितदर्थवर्णनादप्रसिद्धयभावात् । नच पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अन्वयितावच्छेदकरूपेणोपस्थितिः कारणमित्यर्थकाकाङ्क्षाभास्यसम्बन्धावच्छिन्नेतिपूर्वोक्तनियमेनैव निर्वाहे पदार्थः पदार्थेनान्वेतीति नियमो व्यर्थ इति वाच्यम ? पशुपदं लोमवजालावच्छिन्न शक्तन्तत्र पदेन पदार्थतावच्छेदकं पशुत्वन्तदवच्छेदकं लोमत्वं लोमपदार्थोपस्थिती तत्रैव लोमपदार्थे पशुभेदतात्पर्येण पशुरपशुरितिप्रयोगवारणाय पदार्थः पदार्थेत्यस्यावश्यकत्वात् । नच पदार्थान्तरनिष्ठप्रकारतानिरूपित्तविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रत्यन्वयितावच्छेदकरूपेणोपस्थितिः कारण मित्यर्थकाकासाभास्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति यत्किञ्चिद्धर्मावच्छिन्नविशेष्यतासम्बन्धेनोपस्थितिः कारणमितिनियमः किमर्थ इति वाच्यम् ? विशेष्यविशेषणभावरहितयोः खण्डशक्त्या उपस्थितयोर्विशृङ्खलभावेनेत्याशयः । घटघटत्वयोः परस्परनिरपेक्षयोस्तत्र अभेदसम्बन्धेन नित्यपदार्थस्य घटत्वान्वयतात्पर्येण नित्यो घट इतिवाक्यप्रामाण्यापत्तिभियाऽस्याप्यावश्यकत्वात् । निरवच्छिन्नविशेष्यताकेतरपदार्थप्रकारकशाब्दबोधो न भवतीति फलितार्थः ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः । . वह्निमान् पर्वत इत्याकारकशाब्दबुद्धित्वावच्छिन्नम्प्रति वह्नयभाववद्रव्यमित्यादिबुद्धेः प्रतिबन्धकत्ववारणाय समानधर्मावच्छिन्नविशेष्यताकनिश्चयस्यैवाक्च्छेदकनिष्ठप्रत्यासत्त्यैव वा विरोधिज्ञानप्रतिबन्धकत्वन्तथा च प्रकृते सम्पन्नो व्रीहिरित्यत्र जात्यखण्डोपाध्यतिरिक्तपदार्थस्यैव किञ्चिद्धर्मप्रकारेण भानमितिनियमेन ब्रीहित्वस्य जातित्वेन स्वरूपत एव ब्रोहित्वेन रूपेणोपस्थिति विषयत्वात् एकत्ववव्रीहित्वमित्याकारक ज्ञानञ्च कस्यचिदपि निश्चयस्य न प्रतिबन्धकन्नापि प्रतिबध्यं न कस्यचिद्ज्ञानस्य प्रवर्तकन्नापि कस्यचिद्ज्ञानस्य निवर्तकन्तथाचान्वयितावच्छेदकरूपेणोपस्थितेरावश्य. कत्वात्तस्याश्च ब्रीहित्वस्य जातित्वेन बाधितत्वादिति तात्पर्यम् । ननु कीदृश आकारः प्रतिबध्यप्रतिवन्धकयोर्यो न संघटत इति प्रश्नः ? तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेनेन्द्रियसन्निकर्षाऽजन्यदोषविशेषाजन्यज्ञानत्वावच्छिन्नम्प्रति तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाऽभावत्वावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतासम्बन्धेन अनाहााऽप्रामाण्यज्ञानाऽनास्कन्दितं ज्ञानमेव प्रतिवन्धकमिति प्रकारेण अवच्छेदकनिष्ठप्रत्यासत्याऽर्थात्सम्बन्धेन प्रतिबध्यप्रतिबन्धकमावस्सार्वजनीनः । कार्यकारणभावे घटप्रत्यक्षस्य घटाऽभावानुमित्या प्रतिबन्धकत्ववारणाय प्रतिबध्यतावच्छेदककोटी इन्द्रियसन्निकषांऽजन्यत्वनिवेशः। पित्तरोगेण पीतः शंख इतिज्ञानस्य पीतत्वाऽभाववान् शंख इति ज्ञानेन प्रतिबन्धकत्ववारणाय दोषविशेषाऽजन्यत्वनिवेशः। घटवद्भूतलमितिशुद्धयथार्थज्ञानस्य घटाऽभाववद्भूतल