________________
शास्त्रार्थ कलोपस्कृतः
वस्तुतस्तु पूर्वोक्तद्वितीय प्रकारेऽपि दोषाः । पशुपदार्थीयलोमनिष्ठप्रकार तावच्छेदकसंयोगसम्बन्धस्य शक्तिभास्यत्वेन तद्ग्रहणाभावाय आकाङ्क्षाभास्यसम्बन्धावच्छिन्नाsपदार्थसम्बन्धावच्छिन्न इत्यादिनिवेशस्यावश्यकत्वेन पूर्वोक्तप्रकार एव ज्यायानिति ।
५१
कल्पकास्तु
दण्डेन न घट इत्यादौ विलक्षणा गतिस्तत्र स्वरूपसम्बन्धेनैव नञर्थाऽभावेऽन्वयस्तत्र का गतिरिति विचिन्त्यताम् ।
यथा सम्पन्न ब्रीहिरितिवाक्यस्य नह्येकत्रीहिकणसम्पन्नत्वे तात्पर्य्यमपि त्वनेकत्रीहिसम्पन्नत्वेऽस्ति । अत्रैकवचनदर्शनेनैकत्वस्यानेकत्रीहिष्वसम्भवाद् ब्रीहित्वजातावेवावयोऽस्ति तथा वेदाः प्रमाणमित्यत्राप्येकत्वपदार्थस्य पदार्थैकदेशेन प्रमितिकरणत्वेन साकमन्वये तात्पर्यम् ।
ननु यस्य कुत्राऽपि गतिर्नास्ति तस्य वाराणस्याङ्गतिरितिन्यायेन गत्यभावे संख्येतरत्वेनेत्याद्युक्तरीत्या सङ्कोचः परन्तु न ब्रीहित्वजातावकत्वान्वयो युक्ततरः । पढार्थान्तरनिष्ठप्रकारता निरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अन्वयितावच्छेदकरूपेणोपस्थितिः कारणम् । व्रीहित्वं हि स्वरूपत एव व्रीहिपदस्य शक्यतावच्छेदकमस्ति व्रीहिपदेन व्रीहित्वस्य स्वरूपत एवोपस्थितिर्भवति नत्वन्वयितावच्छेदकेन व्रीहित्वत्खेन रूपेणेति न व्रीहित्वजातावे कत्वान्वयः किन्तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थव्रीहिष्वेवान्वयस्तथाच पदार्थः पदार्थेनेति नियमेनैव सङ्कोचस्तथाहि, स्वमेकत्वन्तदाश्रयीभूतं यत्प्रकृत्यर्थतावच्छेदकम्व्रीहित्वन्तद्वत्वं त्रीहिस्ववत्त्वं सम्बन्धरूपं व्रीहिष्वस्त्येव । एवं वेदाः प्रमाणमित्यादावपि स्वमेकत्वन्तदाश्रयीभूतं यत्प्रकृत्यर्थतावच्छेदकम्प्रमितिकरणत्वन्तद्वत्त्वसम्बन्धेन वेदेषु एवैकत्वान्वयः, प्रमितिकरणतावत्त्वन्त्वस्त्येव वेदेष्विति न पदार्थः पदार्थेनेत्यत्र सङ्कोचादिप्रपञ्च इति यदीत्यारम्भ ग्रन्थाशयः ।
नच व्रीहिपदस्य श्रीहित्वत्वविशिष्टव्रीहित्वावच्छिन्ने लक्षणाङ्कृत्वा व्रीहित्वत्वावच्छिनत्रीहित्वे चैकत्वान्वयोपपत्तौ नान्वयितावच्छेदकत्वेनानुपस्थितिरिति वाच्यम् १ लक्षणाया आश्रयणे प्रमाणाऽभावात् इत्याशयेनैवाह यदि स्वाश्रयेति । ननु अन्वयितावच्छेदकरूपेणोपस्थितिः कुतो नेति प्रश्नः । “जात्यखण्डोपाध्यतिरिक्तपदार्थस्यैव किञ्चिद्धर्मपुरस्कारेण मानमिति नियमात् आकाङ्क्षाभास्थसम्बन्धावच्छिन्नयत्किञ्चिम्निष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति यत्किञ्चिद्धर्माविच्छिन्नविशेष्यतासम्बन्धेनोपस्थितिः ( अन्वयितावच्छेदकरूपेणेत्यर्थः ) कारणमिति नियमीयकार्यकारणभावाच्च । ननु अन्वयितावच्छेदकरूपेणेति मूलङ्कभं सम्पन्नो व्रीहिरित्यत्र अन्वयोऽस्त्यस्मिन्नित्यन्वयि तस्य भावोऽन्वयिता एकत्वनिष्ठ प्रकारता निरूपितविशेष्यता व्रीहित्वनिष्ठा तस्या अवच्छेदकञ्चाप्रसिद्धम् । जात्यखण्डोपाध्यतिरिक्तस्येतिन्यायेन व्रीहित्वत्वस्यानुपस्थितत्वात्तथाच कथं ग्रन्यसङ्गतिरिति चेन्न ! अन्वयि