________________
व्युत्पत्तिवादः घट इतिप्रयोगस्स्यादेतन्नियमस्य तु न प्राप्तिविशेष्यतासम्बन्धेन जातिपदार्थोपस्थित्यभावादिति वाच्यम् ? मुख्यविशेष्यतासम्बन्धेनोपस्थितिः कारणमितिनिवेशः । मुख्यविशेष्यत्वञ्च प्रकारत्वानवच्छिन्नविशेष्यत्वम् प्रकारत्वाभिन्नविशेष्यत्वं वा प्रकारत्वासामानाधिकरण्यं वा । जातिमान् घट इत्यादौ त जातिमन्निष्ठविशेष्यतानिरूपितप्रकारत्वसामानाधिकरण्यमेवास्ति जातिपदार्थस्येति न तादृशप्रयोग इत्याशयात् ।
नच नित्यं घटत्वमितिप्रयोगे नित्यपदार्थस्य घटत्वेऽन्वयो न स्यात् नीलो घट इत्यादौ घटनिष्ठविशेष्यतानिरूपितप्रकारता घटत्वे समायाता तथाच तत्रत्यघटत्वात्रस्यघटत्वयोरक्येनात्रत्यं घटत्वम्प्रकारत्वसमानाधिकरणमेवेति वाच्यम् १ उपस्थितीयविशेष्यताविशिष्टा या मुख्यविशेष्यता तेन सम्बन्धेनोपस्थितिः कारणम् उपस्थितीयविशेष्यतावैशिष्टयञ्च स्वनिरूपितत्वस्वनिरूपितप्रकारत्वाऽसामानाधिकरण्यमित्युभयसम्बन्धेन । तथाच अन्यनिरूपितप्रकारत्वसामानाधिकरण्यसत्त्वेऽपि स्वनिरूपितप्रकारस्वसामानाधिकरण्यन्नास्तीति तादृशप्रयोगसौष्ठवात् ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः । न च चैत्रस्य गुरुकुलमित्यादौ यत्किञ्चित्सम्बन्धावच्छिन्नसंख्येतरपदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनेत्यादि कार्यतावच्छेदकदलङ्गतम् परन्तु उपस्थितीयविशेष्यतेत्यादि कारणदलन्न गतमिति हेतोः कार्यतावच्छेदकानाक्रान्तत्वेन हेतर्व्यभिचरित इति वाच्यम ? यत्किञ्चित्सम्बन्धावच्छिन्नसंख्येतरपदार्थान्तरनिष्ठप्रकारतानिरूपितनित्यसाकाङ्कवदवृत्तिमुख्य विशेष्यतासम्बन्धेनोपस्थितिः कारणम् । गुरुत्वस्थ नित्यसाकाङ्क्षवद्वृत्तित्वेन कार्यदलमपि न गतमिति भागाऽसिद्धिदोषाऽभावात् । नन्वेवन्निवेशेऽपि गुरुरगुरुः पशुरपशुरिति स्यात् गुरुभिन्नाऽभिन्नं यद्गुरुत्वमिति बोधात् गुरुभिन्नत्वगुरुनिरूपितत्वेन तस्य नित्यसाकाङ्क्षवद्वृत्तित्वेनैतन्नियमाऽप्रवृत्तेरिति चेन्न ? यत्किञ्चित्सम्बन्धावच्छिन्नसंख्येतरपदार्थान्तरनिष्ठस्वनिरूपितत्वस्वाश्रयनिरू. पितत्वाऽसामानाधिकरण्यैतदुभयसम्बन्धेन । प्रकारताविशिष्टविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति स्वनिरूपितत्वस्वनिरूपितप्रकारत्वाऽसामानाधिकरण्यैतदुभयसम्बन्धेन । उपस्थितीयविशेष्यताविशिष्टमुख्यविशेष्यतासम्बन्धेनोपस्थितिः कारणम् । तथाच स्वम् प्रकारता तदाश्रयो गुरु भिन्नत्वन्तन्निरूपितत्वासाप्रानाधिकरण्यमस्त्येवेति नियमाक्रान्तत्वेन ताहशप्रयोगस्य दुर्लभत्वात् ।। __ यदि तु चैत्रस्य गुरुकुलमित्यादिदोषवारणाय अभेदसम्बन्धावच्छिन्नसंख्येतरपदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनेतिकार्यदले निवेश्य चैत्रस्येत्यत्र निरूपितत्वसम्बन्धावच्छिन्नेति तत्र न नियमप्रवृत्तिरिति कथ्यते तदपि न १ दण्डेन न घट इत्यादौ दण्डप्रयोज्यत्वप्रतियोगिको योऽभावस्तस्य स्वरूपसम्बन्धेन घटत्वान्वयतास्पयें न दण्डेन न घट इतिप्रयोगापत्तरभेदसम्बन्धनिवेशस्य दोषप्रवर्तकत्त्वात् ।