________________
४९
शास्त्रार्थकलोपस्कृतः
स्यादिति
भेदान्वयत्तात्पर्येण गुरुरगुरुरिति अनिष्टस्य वाक्यस्य प्रामाण्यं स्यात् तथा अभेदसम्बन्धेन प्रमेयपदार्थस्य गुरुत्वान्वयतात्पर्येण प्रमेयो गुरुकुलमिति वाक्यस्य प्रामाण्यं च । पदार्थः पदार्थेनेति नियमस्य तु न प्रवृत्तिः आकाङ्क्षाजनकज्ञाननिष्ठविषयितानिरूपकपदार्थसत्त्वात् । एवम्पशुरपशुरित्यादिवाक्यस्याऽपि प्रामाण्यं वाच्यम् १ अपदार्थसम्बन्धावच्छिन्न प्रकारताविशिष्टविशेष्यतासम्बन्धेन शाब्दबुद्धिवा वच्छिन्नम्प्रति पूर्वोक्तविशेष्यतासम्बन्धेन शक्तिज्ञानं कारणमिति, विशेष्यतायाम्प्रकारता वैशिष्ट्यच स्वनिष्ठनिरूपकतानिरूपित निरूप्यतावत्त्व स्वाश्रयनिरूपित निरूपितत्वाऽभाववद्वृत्तित्वोभयसम्बन्धेन । गुरुरगुरुरित्यादौ गुरु भेदनिष्ठप्रकारतानिरूपितगुरुत्वनिष्ठविशेष्यतायास्सत्त्वात् प्रकारताश्रयगुरुभेद निरूपितत्वाऽभावगुरुत्ववद्वृत्तित्वेन च न नियम प्रवृत्तिः । प्रमेयो गुरुकुलमित्यादौ च प्रमेयनिष्ठप्रकारतानिरूपितत्वेन प्रकारताश्रयः प्रमेयः कश्चित् तत्प्रमेयनिरूपित निरूपितत्वाभाववद्वृत्तित्वेन च क्षतिविरहः । चैत्रस्य गुरुकुलमित्यत्राऽपि प्रथमसम्बन्धसत्त्वेपि अर्थात् गुरुत्वनिष्ठविशेष्यतायाश्चैत्रनिष्ठा या प्रकारता तन्निरूपितत्वेऽपि द्वितीयसम्बन्धो न गतः । प्रकारताश्रयश्चैत्रः तन्निरूपितं गुरुत्वनिष्ठ विशेष्यत्वम् तन्निरूपितत्ववत्कुलादिवृत्तित्वेन नियमाऽप्रवृत्त्या न दोषः ।
वस्तुतस्तु
निरूपितत्वेतराकाङ्क्षाभास्यसम्बन्धावच्छिन्नप्रकारतानिरूपित विशेष्यतासम्बन्धेनेतिनिवेशः । गुरुररुः प्रमेयो गुरुकुलम् इत्यादौ तु नियमप्रवृत्तिः । गुरुभेदनिष्ठायाः प्रकारतायाः प्रमेयनिष्ठप्रकारतायाश्च इतरसम्बन्धावच्छिन्नत्वेन नेमौ प्रयोगौ । चैत्रस्य गुरुकुलमित्यत्र तु न "पदार्थः पदार्थेने” तिनियमप्रवृत्तिः १ चैत्रनिष्ठप्रकारताया निरूपितत्वसम्बन्धावच्छिन्नत्वात् इति । किञ्च नित्यसाकाङ्क्षपदार्थातिरिक्तस्विनिवेशेनाऽपि नापत्तिः । एवञ्चेत्थं कार्यकारणभावः ।
नित्यसाकाङ्क्षत्वञ्च स्वविशिष्टत्वम् वैशिष्टयश्च स्वनिरूपकविषयक जिज्ञासा व्याप्यज्ञानविषयत्वस्वतादात्म्यैतदुभयसम्बन्धेन ।
अथ मूलानुसन्धानपूर्वक परीक्षोपयोगिसरलप्रकारः ।
यत्किञ्चित्सम्बन्धावच्छिन्न संख्येतरपदार्थान्तर निष्ठप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तादृशप्रकारतानिरूपित विशेष्यतासम्बन्धेनोपस्थितिः कारणम् इति कार्यकारणभावमूलिका "पदार्थः पदार्थने "तिव्युत्पत्तिः । नच नित्यो जातिमान् घट इस्यादौ जातिमद्धटकजातौ नित्यत्वान्वयतात्पर्येण नित्यो जातिमान्
नित्यत्वञ्च प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् ।
अत्रायमाशयः यत्र २ कार्यत्वन्तत्र २ प्रागभावप्रतियोगित्वमवश्यं वर्त्तते अत एव 'कार्यम्प्रागभावप्रतियोगि" इति कार्यलक्षणम् । नित्यानाञ्च परमाण्वादीनाङ्गदाचिदपि प्रागभाव प्रतियोगित्वन्नास्तीति न कार्यत्वम् । यस्य च कदाचिद् ध्वंसस्सम्भवति स एव ध्वंसप्रतियोगित्वमनुगच्छति नचैव-. माकाशादीनामिति भवति ध्वंसाप्रतियोगित्वमिति ।
४ व्यु०