________________
व्युत्पत्तिवादः
नादृशव्युत्पत्तिसंकोचस्यावश्यकत्वात् । यदि च स्वाश्रयप्रकृत्यर्थता
वच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थ एवैकत्वान्वयः ब्रोहित्वजातेः स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयान्त्रयितावच्छेदकरूपेणानुपस्थितेस्तत्रपदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपोदृश्येव गतिः ।
४८
तया एकत्वादिपदार्थप्रकारको विशेषणतया प्रमाणादिपदजन्यपदार्थोपस्थिति : कारणम् । विशेषणतया प्रमाणादिपदजन्यपदार्थोपस्थित्यव्यवहितोत्तरजायमानैकत्वादिपदार्थप्रकारको विशेष्यतया प्रमाणादिपदजन्योपस्थितिर्हेतुरितिरीत्या व्यभिचारादिवारणम् ।
तादृशव्युत्पत्तिसङ्कोचस्येति ।
अर्थाद् व्युत्पत्तिभूतकार्यकारणभावघटककार्यतावच्छेदककोटिप्रविष्ट आकाङ्क्षाभास्यसम्बन्धावच्छिन्नप्रकारतायां सुबर्थेत रत्वेन प्रातिपदिकातरत्वेन वा सङ्कोचः । एवञ्च सुबर्थेतराकाङ्क्षाभास्यसम्बन्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शा
बदबुद्धित्वावच्छिन्नम्प्रति सुबर्येतराकाङ्क्षा भास्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यिताप्रयोजकपदनिष्ठशक्तिनिष्ठबोधविषयत्वनिष्ठाश्रयत्व सम्बन्धावच्छिन्न प्रकारतानिरूपितविशेष्यतानिष्ठप्रकारतानिरूपित विशेष्यतासम्बन्वेन शक्तिज्ञानं कारणमिति सम्पन्नों व्रीहिरित्यादावेकत्वस्य सुत्रर्थन “पञ्चकम्प्रातिपदिकार्थ" इति मते प्रातिपदिकार्थत्वेन च क्षतिविरहात् । न च संख्येतरयत्किञ्चित्पदार्थनिष्ठाकाङ्क्षाभास्यसम्बन्धावच्छिन्नप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रतीति कार्यतावच्छेदकस्वरूपवर्णनं क्रियतां किं सुनतरत्वनिवेशेनेति वाच्यम् ? " प्रकृत्यादिभ्य उपसंख्यानमिति व्याकरणवार्तिकम् प्रकृत्या चारुरित्युदाहरणम्, अभेदस्तृतीयार्थः चारुत्वनिष्ठविशेष्यतानिरूपितप्रकारताया नियमाक्रान्तत्वेन तृतीयार्थाऽभेदस्य संख्येतरत्वेन प्रकृत्या चारुरिति वाक्यस्याऽप्रामाण्यापत्तिस्तुचर्येतरत्वेन सङ्कोचे तु अभेदस्य सुत्रघटकतृतीयार्थत्वेन नियमाऽविषयत्वेनाक्षतेः । न च चैत्रस्य गुरुकुलमित्यादौ चैत्रपदार्थस्य निरूपितत्वेन गुरुत्वेऽन्वयः चैत्रनिरूपितं गुरुत्वमिति बोधात् । तथाच गुरुत्वस्याऽपि पदार्थैकदेशत्वेनोक्त व्युपत्तिविरोध इति वाच्यम् ? सुत्रर्थेतरयत्किञ्चित्पदार्थनिष्ठाकाङ्क्षाभास्यसम्बन्धावच्छिन्नप्रकारतानिरूपितपदार्थान्तरविषयकाकाऽङ्घाजन कज्ञाननिष्ठविषयितानिरूपकपदार्थेतरनिष्ठ विशेष्यतासम्बन्धेन शाब्दबुद्धित्वविच्छिन्नम्प्रति तादृशविशेष्यताप्रयोजकपदनिष्ठशक्ति निष्ठबोधविषयत्वनिष्ठाश्रयत्व सन्बन्धावच्छिन्नप्रकार तानिरूपितविशेष्यतासम्बन्धेन शक्तिज्ञानं कारणम् इति । तथा च चैत्रपदार्थस्याकाङ्क्षाजनकज्ञाननिष्ठविषयितानिरूपकत्वेन तदितरत्वाऽभावेनाऽदोषात् । न च गुरुत्वपदार्थे गुरु व्यापकत्त्वरूपस्योपाधेः सत्वेन नानुमानसम्भव इति वाच्यम् ! महर्षिप्रवरगौतमादिभिः स्वीयशिष्यपरम्पराद्वारा सकतृ कत्त्वस्य स्मरणेन साधनव्यापकत्वादुपाध्यायोगात् ।