________________
- शास्त्रार्थकलोपस्कृतः संपन्नो ब्रोहिरित्यनेकोवहितात्पर्यकेऽप्येकवचनदर्शनेन स्थसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति आकाशाभास्यसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यताप्रयोजकपदनिष्ठशक्तिनिष्ठबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शक्तिज्ञानस्य कारणत्वात्फलतीयम्ब्युत्पत्तिः पदार्थः पदार्थेनान्वेतीति । कार्यकारणभावीयाकाङ्क्षाभास्यसम्बन्धावछिन्ननिवेशफलन्तु लोमवल्लाङगूलावच्छिन्ने शक्तम्पशुपदमिति शक्तिज्ञानाकारे पशुपदार्थतावच्छेदकतावच्छेदकलोमनिष्ठप्रकारतया लाङगूले विशेष्यतासम्बन्धेन यत्रेष्यते शाब्दबोधस्तत्र व्यभिचारस्स्यादत आकाङ्क्षाभास्यसम्बन्धाचच्छिन्नत्वनिवेशः । लोमनिष्ठप्रकारतावच्छेदकसंयोगसम्बन्धस्य शक्तिभास्यत्वात् ।
तद्विशिष्टे शक्तिरिति विचारः । ननु पदशक्तिरूपपदार्थत्वस्येत्यस्य यदि पदनिरूपिता शक्तिः पदशक्तिः पदनिनिष्ठा वा शक्तिः पदशक्तिः शक्तिश्चेश्वरेच्छारूपैवेति मन्यते तर्हि पदनिरूपितवत्पदनिष्ठत्वयोरीश्वरेच्छायाम्बाधस्तथा च पदशक्तिरित्यस्य पदसम्बन्धिनी शक्तिरित्येवार्थः । सम्बन्धश्च स्वजन्यबोधनिरूपितत्वाख्य एव । सा शक्तिश्च स्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्वसम्बन्धेन व्यक्तौ वर्तते । स्वनिष्ठविशेष्यतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नप्रकारतावत्वसम्बन्धेन जातौ वर्तते । स्वनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गघटकावच्छेदकतावच्छेदकत्वसम्बन्धेन समवाये वर्तत इति तात्पर्यम् । तथा च तद्धर्मतर्वैशिष्टयतदाश्रयेवु शक्त्या विशेषणपदस्यैकवचनान्तत्वमिति । अत एव सन्मात्रविषयिण्या ईश्वरेच्छायास्समूहालम्बने घट. ‘पदाद् घटो बोद्धव्य इत्याकारे वोधादावपि सत्त्वेऽपि न व्यभिचार इत्यलम् ।
सम्पन्नो ब्रोहिरिति । एकत्वस्य पदार्थतावच्छेदकेऽन्वयाद् व्रीहित्वजात्यवच्छिन्नः क्षेत्रस्थः सर्वोऽपि ब्रीहिस्सम्पन्नः परिपक्क इत्याशयः । पदार्थः पदार्थेनेतिनियमे पदार्थः पदजन्यप्रती. तिविशेष्यः पदार्थेन पदजन्यप्रतीतिविशेष्येणान्वेति । तथा च फलितार्थः, एकपदार्थविशे यकाऽपरपदार्थप्रकारकशाब्दबोधम्प्रति समानविशेष्यताप्रत्यासत्या पदजन्यपदार्थोपस्थितिहेतुः। क्वचित्तु वेदाः प्रमाणमित्यादौ शिष्टानुभवानुरोधेन विशेष्य
अपौरुषेयत्वविशिष्टवाक्यत्वं वेदस्य लक्षणमितिमीमांसकाः । नित्यत्वञ्च वेदानाम्मतेऽन्न । तार्किकास्तु-उत्पन्नःको विनष्टःक इति बुझेर नित्यता।
तस्मादनित्या एवेति वर्णास्सर्वे मतं हि नः ।। का. इत्यादि प्रतिपादयन्तः अनित्यवर्षसमुदायवाक्यसमुदायरूपस्य वेदास्यानित्यत्त्वमेवेत्यभिदधति । तत्र च "वेदा अनित्या वाक्यसमूहत्त्वाद् भारतादिवत्" इत्यनुमानेन "तस्मात्ते पानात यो वेदा अजायन्त" इतिश्रुतिमपि चरितार्थयन्ते । न च स्मर्यमाणकत्तु त्वस्य साध्यव्याप्यत्वे सति साधना