________________
४६
व्युत्पत्तिवादः न्वयः । घटादिपदार्थस्य अन्वयितावच्छेदकघटत्यरूपेणोपस्थितिसत्त्वात् स्वरूपत एव घटत्वोपस्थितिसत्त्वात् जात्यखण्डोपाध्यतिरिक्तपदार्थस्यैव किञ्चिद्धर्मपुरस्कारेण भानमिति न्यायेन घटत्वस्य जातित्वात् । समवायभिन्नत्वे सति स्वरूपसम्बन्धेन वृत्तित्वे मति भावत्वमखण्डोपाधित्वम् अनिर्वचनीयधर्मविशेषत्वं वा। तथा च स्वरूपत उपस्थिते घटत्वे कथन्नित्यत्वान्वय इति चेन्न ? नित्यो जातिमान् घट इत्यादी जातित्वविशिष्टजातिमद्बोधकतन्छन्दघटिते नित्यस्स इत्यादौ चाजातिपदाथै पदार्थैकदेशेऽन्वयवारणाय पदार्थः पदार्थेनेति व्युत्पत्तिस्वीकारात् । किञ्च पशुपदं लोमवल्लागूलावच्छिन्ने शक्तम् "दी? लोमादिमान् पशुः" तत्र लोम्नः पदार्थकदेशत्वेनानिष्टस्य दीर्घत्वान्वयस्यापत्या दीर्घः पशुरिति वाक्यापत्तेश्च ।
न च पूर्वोक्तरीत्या नित्यो घट इत्यादी घटत्वस्य कथम्पदार्थकदेशत्वम् जात्याकृति. व्यक्तयः पदार्थ इति न्यायसूत्रेण घटत्वन्तु पदार्थ एव घटः घटत्वम् समवायश्चेति पदार्थ इति कथमापत्तिरिति वाच्यम् ? पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतावावच्छिन्नाकारतानिरूपितविशेष्यतासम्बन्धेन शक्तिजानकारणमेवश्च नीलो घट इत्यादौ पदार्थान्तरनीलनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधम्प्रति आश्रयत्वसम्बन्धेत्यायुक्तप्रकारेण शक्तिज्ञानं कारणभिति प्राप्तमाश्रयत्वसम्बन्धेत्याधुक्तरूपशक्तिज्ञानञ्च घटस्यैवास्ति न घटत्वादेरिति नीलपदार्थस्य धट एवान्वयो न तु घटत्वे । तथा च नित्यो घट इत्यादौ आश्रयत्वसम्बन्धेत्याद्यक्तरूपशक्तिज्ञानं सर्वसम्मतं घटस्यैव न तु घटत्वस्येति घटे एव नित्यत्वान्वयो न तु घटत्वे घटस्य चानित्यत्वात्तत्र नित्यत्वान्वयबाधान्नित्यो घट इति न भवति । अयम्फलितार्थः, यस्मिन् घटादिपदार्थे बोधविषयत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यता आश्रयत्वसम्बन्धेन वर्तते तस्मिन्नेव पदार्थान्तरस्यान्वयो भवति नान्यत्रेति सिद्धान्तस्तथा च घटत्वान्वयतात्पर्यणोक्तापत्तेस्तादवस्थ्यात् नित्यो जातिमान् घटः नित्यस्स इति फलान्तराणामुक्तत्वाच्च । न च घटे नित्यत्वान्वयबाधेन तादृशतात्पर्येण तथा प्रयोगाऽभावेऽपि घटत्वपदार्थस्यैव नित्यपदार्थेऽन्वयोऽस्तु घटत्वान्वयतात्पर्येणाऽपि नित्यो घट इति कुतो नेति वाच्यम् ? एकत्र विशेणतया अन्वितस्य पदार्थस्य पदार्थान्तरे विशेषणतयाऽन्वयोऽव्युत्पन्न इति व्युत्पत्तिमूलकयत्किञ्चित्पदार्थनिष्ठविशेष्यतानिरूपिताऽपदार्थसम्बन्धावच्छिन्नप्रकारतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति यत्किश्चित्पदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकपदनिष्ठशक्तिनिष्ठबोधविषयत्वनिष्ठाश्रयत्वसम्बन्वावच्छिन्नप्रकारतानिरूपितविशेष्यतानिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शक्तिज्ञानङ्कारणम् । तथा च घटत्वस्याऽपि नित्यपदार्थेऽन्वय इति नित्यो घट इति प्रयोगस्याऽप्रामाणिकत्वात् । आकाङ्क्षाभा
. जात्यखण्डोपाधीति-मिन्नभिन्नघटादेरेकरूपेणानुगमाय नियमोऽयमभिमतः। तथासति घटत्वेनैकरूपेण घटत्त्वावच्छिन्नानां समेषामेकधाऽनुगमः । जात्यखण्डोपाध्योश्च स्वतोऽनुगतत्वेन नायं क्लेशोऽपेक्ष्यते तत्र नियमै स्वीकार्ये चेयमेव युक्तिस्साधीयसी।