________________
शास्त्रार्थकलोपस्कृतः शाब्दप्रभाकरणत्वं च शब्दत्वावन्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यता । न च पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोधः ?
नहें वह्निना सिञ्चतीत्यादौ प्रमाणत्वव्यवहार एव न भवतीति न कश्चिद्विरोधः । न च "स्वर्गकामो यजेत, अहरहस्सन्ध्यामुपासीतेत्यादिप्रतिवाक्यम्प्रमाकरणत्व म्भिन्नम्मिन्नमिति कथङ्कारं यावच्छब्दनिष्ठमेकमेवेति मूलग्रन्थसङ्गतिरिति वाच्यम् १ शाब्दत्वजातेरेकत्वेनाऽदोषात् । न चैवं स्वीकारे घटः कर्मत्वम् आनयनम् कृतिरित्यादावपि शाब्दत्वजातिसत्वेन प्रामाण्यमापतेदिति वाच्यम् ? शाब्दत्वजातिसत्वेऽपि शाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणत्वाऽभावात् घटनिष्टकर्मतानिरूपकानयनत्वावच्छिन्नम्प्रति द्वितीयान्तघटपदसमभिव्याहृत "आनयेति क्रियापदसमभिव्याहारः कारणम् इति कार्यकारणभावात् ।
न च शब्दत्वेन कारणत्वस्वीकारे सकलशाब्दबुद्धित्वावच्छिन्नम्प्रति यावच्छब्दनिठमेकमेव कारणत्वमिति ग्रन्थाशयवर्णने घटः कर्मत्वम् आनयनं कृतिरित्यादिवाक्याप्रामाण्यं सुशकमेवेति वाच्यम् ? परम्परया प्रमाणत्वसत्वेऽपि सम्प्रदायविरुद्धत्वेन शाब्दबोधाऽजनकत्वात् ।
शब्दत्वावच्छिनं यावच्छब्देति ।। अस्यायमाशयः, कार्याऽव्यवहितप्राकक्षणावच्छेदेन कार्याधिकरणवृत्त्यमावाऽप्रतियोगित्वम् न सकलशब्देषु चालनीन्यायेन प्रतियोगित्वादतस्तादृशप्रतियोगिताऽनवच्छेदकशब्दत्वरूपधर्मक्त्त्वमेव शाब्दधियम्प्रति कारणत्वम्वाच्यन्तच्च शब्दत्वमेवेत्याशयेनाह शब्दत्वावच्छिन्नेति ।
यदि च शब्दत्वमेव कारणत्वन्तदा कारणताच्छेदकत्वं शब्दत्वे न सम्भवति अभेदेऽवच्छेद्यावच्छेदकभावानङ्गीकारात् । तथापि तादृशप्रतियोगितानवच्छेदकत्वविशिष्टशब्दत्वस्य कारणत्वं स्वरूपतश्शब्दत्वस्य कारणतावच्छेदकत्वस्वीकारान्न कश्चन विरोधः ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः ।। ननु प्रमितिकरणत्वस्य प्रमाणपदार्थैकदेशत्वेन तत्र कथमेकत्वान्वयः "पदार्थः पदार्थेनान्वेति न तु पदार्थ केदेशेने"ति नियमविरोधात् । नियमफलन्तु घटत्वस्य नित्यस्वादभेदेनान्वयतात्पर्येण नित्यो घट इति वाक्यवारणमेव, तत्रघटत्वस्य पदार्थेक देशत्वेनाऽभेदेनान्वयविरोधात् । ननु पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अन्वयितावच्छेदकरूपेणोपस्थितिः कारणम्, अन्ययो.. ऽस्त्यस्मिन्निति अन्वयी तस्य भावोऽन्वयिता पदार्थस्य नीलादेः पदार्थेन घटादिनैवा