________________
व्युत्पत्तिवादः __प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । कमेव विवक्षितमस्ति । तथा च प्रमितिकरणत्व एवैकत्वान्क्यो न तु प्रमितिकरणभूतेषु चतर्षु वेदेषु । यथानेकेषु धटपटादिष्वेकमेव घटत्यम्पटत्वञ्चानुगमकन्तथाऽनेकेषु प्रमितिकरणेषु वेदेष्वेकमेव हि प्रमितिकरणत्वमनुगमकमिति तत्रैकत्यान्वये न हानिः।
प्रमितिकरणत्व इति । वस्तुतस्तु प्रमितिकरणत्वेऽन्वेतीत्यस्य प्रमितिकरणत्वघटकप्रमितित्व इत्यर्थः । वेदानां संसारनिदानमिथ्याज्ञानोन्मूलनक्षमे परमात्मविषयकानुभवे तात्पर्य्यम् सर्वे वेदा यत्पदमामनन्तीति श्रुतेः नत्वनेकवैजात्यविशिष्ठानेकानुभव इति ।।
ननु सकलवेदजन्यपरमात्मविषयकज्ञानस्य व्यासवामदेवादिभेदेन नानात्वात्कथन्ताहशैकत्वान्वययोग्यतेति प्रश्नः १ प्रमितित्वे एकत्वान्त्रयस्य निर्वाधत्वात् दशमस्त्वमसीति महावाक्यात्प्रत्यक्षप्रमाणवादिनाम्मतनिरासाय तत्सौष्ठवात् । ननु तत्तदान्विततत्तदर्थविषयकशाब्दबोधत्वावच्छिन्नम्प्रति तत्तत्पदसाकाश्त्तत्तत्पदत्वेन कारणता शाब्दस्य । वह्निना सिञ्चतीत्यादावयोग्यासाधारणत्वेन व्यभिचरितत्त्वात्प्रमितिकरणताऽनवच्छेदकत्वात्कथं शब्दत्वावच्छिन्नप्रमितिकरणत्वम् । किञ्च शब्दत्वन्न किमपि शाब्दम्प्रति जनकतावच्छेदकमतिप्रसक्तत्वादिति चेन्न ? सकलवेदतात्पर्यार्थविषयकविजातीयप्रमितित्वन्छिन्नम्प्रति स्वतन्त्रपरुषोच्चरितशब्दत्वावच्छिन्नप्रमितिकरणत्वन्त्वेकमेवेत्यदोषात् । वेदत्वञ्च स्वतन्त्रधुरुषोच्चरितशब्दत्वम् शब्दतदुपजीवि. प्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्य वाक्यार्थज्ञानजन्यप्रमाणशब्दगंवेति ।
अत्र यावच्छब्दपदेन प्रमाणभूतशिष्टसम्प्रदायानुकूलश्रुत्यनुकूलस्मृत्यादिप्रतिपादितशब्द एव गृह्यते "इतिहासपुराणानि पश्वमो वेद उच्यते' इतिश्रीमद्भागवतोक्तः । एवं त्रयस्समुदिता हेतुरित्यत्र शक्तिनिपुणताऽभ्याससमुदाये एकमेव हेतुत्वविक्षितमिति तत्र समुदायनिष्ठहेतुत्व एवैकत्वान्वय इति न समानवचनकत्वमिति तत्त्वम् ।
। ननु शब्दत्वावच्छिन्नकारणतानिरूपितकार्यताया वह्निना सिञ्चति घटे पृथिवी इत्यादिभ्रमज्ञान "जलेन सिञ्चति भूतले घट" इत्यादिप्रमाज्ञानोमयसाधारण्येनोभयत्र वाक्ये प्रामाण्यमापद्येतेति चेन्न ? शाब्दत्वावच्छिन्नप्रमावृत्तित्वविशिष्टकार्यतानिरूपितकारणत्वमित्येव शाब्दप्रमाकरणमितिवाक्यार्थस्तथाच लोकप्रयोगा
अनुभवो द्विविधः यथार्थो ऽयथार्थश्च । तत्र तद्वनिष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सत्यनुभवत्वं यथार्थानुभवस्य लक्षणम् । रजतत्त्ववनिष्ठविशेष्यतानिरूपितरजतत्वनिष्ठप्रकारताशालिरजते रजतमिति । __ एवम्-सदभाववनिष्ठविशेष्यतानिरूपिततनिष्टप्रकारताशालित्वविशिष्टानुभवत्वमयथार्थानुमवत्वम् । शुक्तौ इदं रजतमित्युदाहरणम् ।