________________
शास्त्रार्थकलोपस्कृतः
४३ वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्त्या बहुत्वविरुद्धमेकत्वं विवक्षितम्। तच्च
वस्तुतन्दु-वेदाः प्रमाणमित्त्यादौ जसप्रत्ययान्तवेदपदसमभिव्याहतस्वन्तप्रमाणपदसमभिव्याहाररूपाकासाशानकारणमिति । एवमभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतवन्तघटपदत्वरूपाऽकाङ्क्षाज्ञानङ्कारणमिति । तथा च अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्ति केनेतिवद् यत्र विशेष्यवाचकपदोत्तरविभक्ति तात्पर्यविषयेति नियमोऽपि पूर्वोक्तप्रकारेणाकाङ्क्षाज्ञानकार्यकारणभावमूलक एव । तथा चैतन्नियमस्फुटप्रतिपत्तये नाऽपूर्वः कार्यकारणभाव इति सूक्ष्मवेत्तारः।
ननु सुन्दराभ्यां घटाभ्यामित्यादौ सुन्दरपदोत्तरतृतीयाद्विवचनभ्याविभक्तिघंटपदोत्तरं पञ्चमीविभक्तिभ्यामिति विरुद्ध विभक्तिसत्त्वेऽभेदान्वयवोधः कुतो न ? विशेष्यवाचकघटपदप्रकृतिकभ्याविभक्तिभिन्नैव विशेषणवाचकसुन्दरपदोत्तरभ्यांविभक्तिः । तृतीयाविभक्तौ चतुर्थी विभक्तौ पञ्चमीभ्याविभक्तौ च समानानुपू. वकत्वं समानमेव । तत्तत्प्रत्ययप्रकृतित्वमप्यस्त्येव शाब्दबोधस्वरूपयोग्यतायाः सर्वतोभावेन आकाङ्क्षाज्ञानस्याऽपि सत्त्वात् इति चेत्सत्यम् ? सुन्दराभ्यां घटाभ्यामित्यादौ तृतीयार्थकरणत्वविशिष्टतात्पर्येण बोधनदशायां विशेष्यविशेषणयोस्समानविभक्त्यर्थविशिष्ट समानविभक्तिकत्वस्य कारणत्वात् । एवमेव चतुर्थीपञ्चम्योरुभयोरपि कारणत्वकल्पनम् । किञ्च गौरित्युक्ते सर्वे सन्देहा निवर्तन्ते नाश्वो न गर्दभ इति न्यायेन एकविषयकज्ञानेऽपरविषयो नास्तीति व्यवहारस्सार्वजनीनस्तथा च विशेष्यवाचकपदोत्तरविभक्त्यर्थकरणत्वरूपार्थविशेष्यवाचकपदोत्तरविभक्त्यर्थसम्प्रदानावरूपार्थम्प्रतिबध्नातीति । एवं विशेष्यवाचकपदोत्तरविभक्त्यपादानत्वरूपार्थः विशेष्यवाचकपदोत्तरततीयाविभ क्यर्थकरणत्वरूपार्थम्प्रतिबध्नातीति परस्परप्रतिबध्यप्रतिबन्धकभावकल्पनेन परस्परव्यभिचाराऽभावात् परस्परविरुद्ध विभक्ति सत्त्वेऽपि नाऽभेदान्वयबोधस्सुन्दराभ्यां घटाभ्यामित्यादाविति तत्त्वमित्यलम् ।
वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरेतिविशेष्यवाचकं वेदपदन्तदुत्तरवर्तिविभक्तिर्जसविभक्तिस्तत्तापर्यविषयसंख्या बहुः त्वसंख्या तविरुद्धा एकत्वसंख्या तस्या एव विशेषणवाचकप्रमाणपदे विवक्षितत्वान्न समानवचनत्वमत एकवचनमेव तत्र प्रयुक्तम् । चतुषु वेदेषु यद्यप्येकत्वान्वयोऽनहस्तथापि प्रकृत्यर्थतावच्छेदके तदेकत्वान्वयः । प्रकृतिपदेन प्रमाणपदं बोध्यम् । प्रमीयतेऽनेनेति प्रमाणम् करणे ल्युट प्रमितिकरणम्प्रमाणम् प्रमितिकरणतावन्तो वेदा इति फलितार्थः । प्रकृत्यर्थतावच्छेदकञ्च प्रमितिकरणत्वमेव तत्प्रमितिकरणत्वं सर्वेषु वेदेष्वे.