________________
४२
व्युत्पत्तिवादः सम्बन्धस्य गमनम्पुष्पवन्तशब्दे न जातं किन्तूदासीन एव । एवञ्च स्वविशिष्टमुदासीनपदन्तद्वृत्त्पानुपूयंभाववत्वं पुष्पवन्तपदेऽस्त्येवेति लक्षणसमन्वयात्पुष्पवन्तदेवपदयो. स्समानवचनत्वसिद्धया न पुष्पवन्तौ देव इति वाक्यमपि तु पुष्पवन्तौ देवावित्येवेति । विशेषणवाचकपदे विंशत्यादिसंख्यावाचकातिरिक्तत्वस्य निवेशेन विंशतिर्ब्राह्मणाः द्वे. विशती इत्यादीनामपि साधुत्वमित्यलम् ।
किञ्च विशेष्यवाचकपदविशिष्टं यत्र विभक्तिप्रकृतित्ववद्विशेषणवाचकं पदन्तत्रैव समानवचनकत्वन्नान्योति । वैशिष्टयश्च स्वप्रयोज्यविशेष्यतानिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वप्रकारकवक्तृतात्पर्यविशेष्यत्व स्वाव्यवहितोत्तरसुविभक्तिविशिष्टत्वसम्बन्धाभ्याम् । अत्र वैशिष्टयञ्च स्वाऽभावववत्वस्वविशष्टानुपूर्वीमत्त्वसम्बन्धाभ्याम् । अभावश्च स्वजन्यबोधविषयत्वप्रकारकतात्पर्यविषयसंख्याविरुद्धसंख्यानिष्ठप्रकारतानिरूपितविशेष्यताप्रयोजकत्वप्रकारकतात्पर्यविशेष्यत्वसम्बन्धावच्छिन्नप्रतियोगिताक एव बोध्यः । सम्बन्धघटकवैशिष्टयञ्च स्वप्रकृतिप्रयोज्यविशेष्यतानिरूपिताऽमेदसम्बन्धावच्छिन्नप्रकारतावच्छेदकधर्मावच्छिन्नविषयताप्रयोजकत्वप्रकारकतात्पर्यविशेष्यस्व-स्वविशिष्टभिन्नत्वसम्बन्धाभ्याम् । अत्र वैशि० स्वसमानानुपीकविभक्तिप्रकृतित्वसमानाधिकरणसाधुत्वाऽभावकत्वस्ववृत्तिसंख्यातात्पर्यकविभक्तित्वव्यापकत्वोभयसम्बन्धेन । अत्र व्यापकता च स्वीयप्रवृत्तिनिमित्तावच्छिन्नर्मितानिरूपितप्रकारतावच्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्न प्रकारताप्रयोजकत्वसम्बन्धावच्छिन्ना ग्राह्या। आद्यसम्बन्धफलन्तु राज्ञः पुरुषावित्यादौ यत्र राजपदोत्तरविभक्तिरोत्सर्गिकी साधु त्वार्था तत्र समानवचनत्वपरिहारार्थमभेदसम्बन्धावच्छिन्नेत्यादिः । स्वाव्यवहितोत्त रत्वफलन्तु स्तोकम्पचत इति शपा व्यवधाने स्तोकमत्त इत्यत्र दोषवारणाय सुबिति । स्तोकम्पचौ स्तोकं सम्पदावित्यादौ तु किपोऽनुसन्धानेन न दोषः। विभक्ति वैशिष्टयनियामकस्वाऽभाववत्त्वफलन्तु सुन्दरा दारा इत्यादाव पसिद्धिनिराकरणम् । स्वविशिष्टवृत्तीत्यत्र स्वप्रकृतिप्रयोज्येत्यादिसम्बन्धफलन्त मैथिली दारा इतिवत् घटा नील इत्यादिवारणमेव । स्वविशिष्टभिन्नत्वघटकप्रथमसम्बन्धफलञ्च मैथिलीदारा मैथिल्यौ दारा इत्यादीनामुपपत्तिरेव । द्वितीयस्य फलन्त त्रयः पुरुषः बहवः पुरुषः पुष्पव. न्ती देवः नासत्यौ देव इत्यादिसमस्तवाक्ये न समानवचनकत्वापत्तिरित्येवमेवेति पू. ज्यमैथिलाः ।
अथ कीदृशकार्यकारणभावमूलकोऽयं यत्र विशेष्यवाचकेतिनियम इति प्रश्नः। विशेष्यताविशिष्टप्रकारतासम्बन्धेन शाब्दबोधम्प्रति तादृशविशेष्यताप्रयोजकपदसमा. नवचनकपदजन्योपस्थितिर्विशेष्यतासम्बन्धेन कारणम् । विशेष्यतावैशिष्टयञ्च प्रकार. तायां स्वनिरूपितत्वस्वप्रयोजकपदविशिष्टं यद्विभक्तिप्रकृतित्त्ववत्पदन्तत्प्रयोज्यत्वो. भयसम्बन्धेन । पदे पदवैशिष्टयञ्च पर्वोक्तरीत्या बोध्यम् ।