________________
शास्त्रार्थकलोपस्कृतः च्छेदकत्रित्वधर्मे अत्रत्यप्रथमसम्बन्धगमनेऽपि द्वितीयसम्बन्धो न गतस्तथा हि स्वम् पुरुषनिष्ठा विशेष्यता तत्प्रयोजकपदोत्तरविभक्तिः पुरुषदोत्तरसुविभक्तिस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्त्वन्नास्ति किन्तु बहुत्वसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वं त्रित्वेऽस्तीति उभयसम्बन्धेन स्वविशिष्टस्त्रिशब्दो न जातस्तथा चोभयसम्बन्धेन स्वविशिष्टधर्मावच्छिन्नमुख्यविशेष्यताकबोधजनकत्वेन तात्पर्य्यविषयस्त्रिशब्दो न जातः किन्तूदासीनोऽस्तीति तवृत्यानुपूर्व्यभाववत्वं त्रिशब्देऽस्तीति समानवचनत्वं सिद्धमित्याशयात् । मैथिली दारा इत्यत्र सुविभक्तिवाच्यकत्वसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वन्दारत्वेऽस्त्येवेति यत्रैकस्त्रीविषयकबोधजनकत्वेन एकत्वेनैव जसन्तदारपदस्य प्रयोगः तत्रोभयसम्बन्धेन स्वविशिष्टधमो दारत्वन्तद्धर्मावच्छिन्नमुख्यविशेष्यताकत्रोधजनकत्वेन तात्पर्यविषयत्वस्य दारपदे सस्याद् द्वितीयसम्बन्धी गतः, स्वविशिष्टविभक्तिसजातीयेत्यादिप्रथमसम्बन्धोऽपि गतस्तथा च स्वविशिष्टं दारपदन्तद्वृत्त्यानुपूर्व्यभाववत्त्वं दारपदे नास्तीति लक्षणसमन्वयाऽभावान्न समानवचनकत्वमिति भावः।
वस्तुतस्तु---मैथिली दारा रुक्मिणीसत्यभामे कृष्णस्य दारा इत्यादौ दोषवारणाय विशेषणवाचकपदे नियतवचनकातिरिक्तत्वनिवेशेन दारशब्दस्य"दाराः पुंसि चभूम्न्येवे" ति कोशबलेन नियतवचनक तया न दोषः । योगरूढंवा पदमेतत् । नियतवचनत्वन्तुएकवचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मव्याप्यविषयताप्रयोजकत्वम् । कोषाद्यनुरोधेनेत्यपि निवेश्यम् । अत एव सर्वे दोषाः परिहृता भवन्तीति तत्त्वम् ।
नन्वेवं सति त्रिबहुपुष्पवन्तादयश्शब्दा नियतवचना "एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरा'विति लिङ्गात् पुष्पवन्तौ दिवाकराविति साधुः। तत्र स्वार्थकत्वस्याविव
या पुष्पवन्तौ देव इति प्राप्नोति धर्मे विशेष्यतानियामकवैशिष्टयस्य द्वितीयसम्बन्धस्याऽपि सत्त्वात्तथा हि स्वप्रयोजकपदोत्तरसुविभक्तिस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगित्वं चन्द्रत्वे सूर्यत्वे वास्ति एवन्द्वितीयसम्बन्धो गतः । तथा चोभयसम्बन्धेन स्ववि. शिष्टधर्मश्चन्द्रत्वं तद्धर्मावच्छिन्नमुख्यविशेष्यताकबोधजनकत्वेन तात्पर्य विषय पुष्पवन्तशब्दः । स्वविशिष्टविभक्तीत्यादिप्रथमसम्बन्धविशिष्टोऽपि । एवञ्च तद्वत्यानुपूयंभाववत्वन्नास्तीति लक्षणसमन्वयाऽभावान्न समानवचनत्वमिति पुष्पवन्तौ देव इत्यापद्यतेति चेन्न ? तृतीयसम्बन्धश्च स्वविशिष्ट वृत्स्यानुपूर्व्यभाववत्त्वरूपस्तत्र वैशिष्टयश्च स्वविशिष्टविभक्तीत्यादिप्रथमसम्बन्ध उक्त एव । द्वितीयसम्बन्धस्तु उक्तोभयसम्बन्धेन स्वविशिष्टो यो धर्मस्तद्विशिस्टत्वरूपः। तत्र धर्म वैशिष्टयञ्च स्वावच्छिन्नमुख्यविशेष्यताकबोधजनकत्वेन तात्पर्यविषयत्व-स्वपर्याप्तशक्यतावच्छेदकताकत्वोमयसम्बन्धेन । एवञ्चोक्तोभयसम्बन्धेन स्वविशिष्टो धर्मश्चन्द्रत्वन्तद्धर्मपर्याप्तशक्यतावच्छेदकताकत्वं पुष्पवन्तशब्दस्य नास्तीति स्वविशिष्टधर्मविशिष्टत्वरूपस्य तृतीयसम्बन्धघटकद्वितीय