________________
व्युत्पत्तिवादः पदसाधुत्वमात्रेण प्रयोगो न तु संख्यान्वयतात्पर्येण, एवञ्च विशेष्यतावैशिष्टयं विशेषणवाचकत्रिपदे न जातम् प्रथमसम्बन्धेन, द्वितीयसम्बन्धेन वैशिष्टयं गतमपि परन्तु स्वविशिष्ट वृत्यानुपूर्वीमत्त्वरूपस्तृतीयसम्बन्धस्तदघटकोभयसम्बन्धमध्ये प्रथमसम्बन्धो न गतस्तथा हि स्वविशिष्टविभक्तिः पुरुषपदोत्तरजसविभक्तिस्तत्सजातीयविभक्त्यव्यवहितपूर्वन्वसमानाधिकरणसाधुत्ववत्त्वं त्रिशब्दस्य नोस्तीति उभयसन्बम्धेन स्वविशिष्टः त्रिशब्दो न जातः किन्तूदासीनः कोऽप्यस्ति तवृत्यानुपूर्वीमत्त्वं नास्तीति त्रितयसम्बन्धेन स्वविशिष्टत्वं त्रिपदे नास्तीति त्रिपदपुरुषपदयोस्समानवचनत्वन्न स्यात्, एवञ्च त्रयः पुरुष इत्यनिष्टः कुतो नेति चेन्न ? यद्यप्यत्रापत्तिवारणायोक्तो. भयसम्बन्धेन स्वविशिष्टवृत्त्यानुपूर्व्यभाववत्त्वरूपस्तृतीयस्सम्बन्ध उच्यते एवञ्चोक्तसम्बन्धेन स्वविशिष्ट उदासीनस्तद्वृत्त्यानुपूर्व्यभाववत्त्वस्य त्रिशब्दे विद्यमानतया लक्षणसमन्वयात् त्रिशब्दपुरुषशब्दयोस्समानवचनकत्वसिद्धया त्रय: पुरुषा इत्युभयत्र जसन्तत्वं विद्यताम् परन्तु मैथिली तस्य दारा इत्यत्राऽपि स्वविशिष्टं स्त्रीपदन्तवृत्त्यानुपूयंभाववत्त्वं दारपदेऽपि मैथिलीपदसमानवचनत्व स्यादतस्तद्वारणाय तृतीयसम्बन्धघटकप्रथमसम्बन्धे साधुत्वस्य स्थाने साधुत्वाऽभाववत्त्वनिवेश्यते । सम्बन्धाकारस्तु स्वविशिष्टविभक्तिसजातोयविभक्त्यव्यवहितपूर्वत्वसमानाधिकरणसाधुत्वाऽभाववत्त्वरूपः । एवञ्च जसन्तदारपदेऽपि साधुत्वाऽभावपर्यन्तः प्रथमसम्बन्धी गतस्तथा चोभयसम्बन्धेन स्वविशिष्टं जसन्तदारपदन्तद्वृत्ति दारत्वानुपूर्वीमत्त्वमेव मैथिली दारा अत्रत्यदारपदस्यास्ति न तु स्वविशिष्टदारस्वानुपूया अभाववत्वमिति लक्षणसमन्वयाऽभावान्न मैथिलीदारपदयोस्समानवचनत्वम् । नन्वेवं सति त्रयः पुरुषा इत्यत्रापि साधुत्वाऽभावपर्यन्तः प्रथमसम्बन्धो गत एवास्ति । उभयसम्बन्धेन स्वविशिष्ट त्रिपदं तद्वृत्त्यानुपूर्व्या अभावत्वं दारपदे नास्तीति दार इति वदताऽपि समानवचनं न स्यादिति चेन्न ? वक्ष्यमाणरीत्या स्वविशिष्टमेव त्रिपदन्न जातं किन्तूदासीनं तद्वृत्त्यानुपूा अभाववत्त्वं त्रिपदेऽस्त्येवेति समानवचनं सिद्धम् । तथाहि
प्रथमसम्बन्धाकारस्तूक्त एव परन्तु स्वनिरूपिताभेदसम्बन्धेत्यादिद्वितीयसम्बन्धमपहाय स्वविशिष्टो यो धर्मस्तद्धर्मावच्छिन्नमुख्यविशेष्यकबोधजनकत्वेन तात्पर्यविषयत्वरूपधमें विशेष्यतावैशिष्टयञ्च स्वनिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारतावच्छेदकत्वेन तात्पर्यविषयत्व-स्वप्रयोजकपदोत्तरविभक्तिवाच्यसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वैतदुभयसम्बन्धेन । एवञ्च त्रय : पुरुष इत्यत्र प्रकारताव
-
.
-
-..
--.--
-
...-
----
----
--
-
..-
---
-
-
-
ष्टयी शब्दानाम्प्रवृत्तिः जातिगुणक्रियासंशाभेदात्। केचिजातिप्रवृत्तिनिमित्तका केचिद् गुणप्रवृत्तिनिमित्तकाः केचित् क्रियाप्रवृत्तिनिमित्तका केचित् संज्ञाप्रवृत्तिनिमित्तकाशब्दा भवन्ति । क्रमशः ब्राह्मण: नील: पाचकः देवदत्त इत्युदाहरणम् । तथा च आपाद्यमाने नीलादिपदस्य विशेषणत्वे बाधकाभावः। अत एव "कडाराः कर्मधारये" इति पाणिनीयचरितार्थमन्यथा विशेष्यविशेषणभावस्य कामचारपक्षे य_न्दुरिमेव स्यादिति ।