________________
शास्त्रार्थकलोपस्कृतः
हितपूर्वत्वसमानाधिकरणसाधुत्ववत्त्वं जसन्तनीलपदस्यास्ति तथापि इत्यत्रैतस्य प्रथमान्तनीलपदस्य जस्विभक्त्यव्यवहितपूर्वत्वसमानाधिकरणसाधुत्वव वाभावान्नीलघटपदस्यापि समानवचनत्वन्न स्यादिति चेन्न १ साधुत्ववत्त्व समानाधिकरणानुपूर्वीमत्त्वस्य निवेशेनाऽदोषात् । तथा हि तादृशोक्तपूर्वक साधुत्ववत्त्वम् जसन्तनीलपदस्यास्तीति तद्वृत्तिनीलत्वानुपूर्वी मत्त्वं नीलो घटा अत्रत्यघटपदस्याऽप्यस्तीति: न दोषः । ननु स्वविशिष्टा या मैथिलीपदोत्तर सुविभक्तिस्तत्सजातीयसुविभक्त्यव्यवहितपूर्वत्वसमानाधिकरणसाधुत्ववत्त्वन्दारयतीत्यर्थक क्रियावाचकदारशब्दस्यास्तीति तथा व तद्वृत्यानुपूर्वीमत्त्वं मैथिलीदारा अत्रत्यदारपदस्याऽस्तीति लक्षणसमन्वयात्समानवचनत्वं मैथिली तस्य दारा इत्यत्र स्यादिति चेत्सत्यम् ? तृतीयसम्बन्धमपहाय तत्स्थास्वविशिष्टवृत्यानुपूर्वी मत्त्वरूपस्सम्बन्धो गृह्यते । स्ववैशिश्यश्च स्वविशिष्टवि भक्तिसजातीयविभक्तयव्यवहितपूर्वत्वसमानाधिकरणसाधुत्ववत्त्वमिति पूर्ववदेव। विभक्तौः स्ववैशिष्टयञ्च पूर्वोक्तोभयसम्बन्धेन । द्वितीयश्च स्वनिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारतावच्छेदकत्वेन तात्पर्यविषयीभूतधर्मावच्छिन्नमुख्य विशेष्यताकत्रोधजनकत्वेन तात्पयविषयत्वोभयसम्बन्धेन । एवञ्च यद्यपि स्वन्तक्रियावाचकदारपदे प्रथमसम्बन्धो गतः परन्तु द्वितीयसम्बन्धो न गतस्तथा हि स्वनिरूपिताऽभेदसम्बन्धावच्छिन्ना प्रकारता जसन्तदारपदनिष्ठा तदवच्छेदकत्वेन तात्पर्यविषयीभूतधर्मो दारत्वन्तदवच्छिन्नमुख्यविशेष्यताकत्रोधजनकत्वेन तात्पर्यविषयीभूतत्वं जसन्तदारपदस्यैव न तु क्रियावाचकदारपस्येति उभयसम्बन्धेन स्वविशिष्टः क्रियावाचकदारशब्दी जात: । जसन्तदारपदे तु प्रथमसम्बन्ध एव न गत एवञ्चोभयसम्बन्धेन स्वविशिष्टस्त्रीशब्दो जातस्तद्वृत्तिस्त्रीत्वरूपानुपूर्वीमत्त्वं जसन्तदारपदस्य नास्तीति लक्षणसमन्वयाऽभावान्न दारमैथिलीपदयोस्समानवचनत्वम् । स्त्रीशब्दस्योभयसम्बन्धेन स्वविशिष्टत्वन्तु तस्याः स्त्रिया दारपदवाच्यस्यः चैक्यात्स्त्रीत्वनिष्ठप्रकारतावच्छेदकं दारत्वमपीत्याशयात् ।
6
३९
नीलो घटाः
•
वस्तुतस्तु- विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया असति बाधके यत्र विशेषणवाचकपदे अविवश्चितत्वन्तत्रैव समानवचनकत्वमिति नियमकरणे मैथिली तस्यदारा इत्यादिषु न दोषः । " दाराः पुंसि च भूम्न्येवेति" कोशस्य बाधकत्वेन क्लृप्तत्वादिति कुशाग्रबुद्धयः । नन्वेवमपि पुरुषपदात् पुरुषत्वजातिगतैकत्वविवक्षया एकवचने त्रयः पुरुष इति वाक्यस्याऽप्यनिष्टस्य प्रामाण्यमापद्येत त्रिशब्दोत्तरज स्विभक्तेः
विशेषणत्वञ्च -विद्यमानरचे सतीतर व्यावर्त्तकत्वम् । नचैवं नीलोत्पलमित्यादिस्थले विशेष्यीभूतोत्पलादेरपि विद्यमानत्वे सति घटपटादीतरव्यावर्त्तकतया विशेषणत्वापत्या कदाचिद उत्पलनोलादे - रपि साधुत्वमापद्येतेति वाच्यम् ? एवमापत्तिभीतेरेव "जातित भिन्नप्रवृत्तिनिमित्तकानां शब्दानाम्मध्ये जातिप्रवृत्तिनिमित्तकमेव विशेष्यवाचकम्" इति नियमस्य स्वीकृतत्वेन दोषाभावात् । तथाहि चतु