________________
व्युत्पत्तिवादः
वस्तुतस्तु -
यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयीभूतसंख्याविरुद्ध संख्यायाः क्रियाविशेषणवाचकपदातिरिक्त विशेषणवाचकपदेऽविवक्षितत्वन्तत्रैव समानवचनकत्वमितिः नियमाकारः । क्रियाविशेषणवाचकातिरिक्तत्त्वन्तु क्रियानिष्ठविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रकार ताप्रयोजकभिन्नत्वन्तेन स्तोकं पचतः स्तोकं सम्पदौ स्तोकं पचावित्यादिषु क्रियाविशेषणवाचकपदसत्त्वात् न दोष इति तदर्थन्न परिष्कारधाराधृतिरिति सूक्ष्मवेत्तारः ।
नन्वेवं सुन्दरा दारा इत्यत्रैव सन्मानवचनत्वन्न स्यातथा हि, तृतीयसम्बन्धघटकप्रथमसम्बन्धेन वैशिष्टयाऽभावात् तत्र दारनिष्ठा या विशेष्यता तदवच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपित संख्यानिष्ठप्रकारतावत्प्रयोजकत्वं जविभक्तेर्नास्तीति चेत्सत्यम् ? विभक्तौ स्ववैशिष्ठय नियामकसम्बन्धमपहाय तत्स्थाने स्वाभाववत्त्वं गृह्यते, अभावीयप्रतियोगितावच्छेदकसम्बन्धश्च स्वानवच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वरूपः एवञ्च स्वानवच्छेदकः पटत्वादिधर्मस्तदवच्छिन्नविशेष्यतानिरूपित संख्यानिष्ठप्रकारतैव नास्तीति तत्प्रयोजकत्वञ्च विभक्तेरप्रसिद्ध मितिः एतत्सम्बन्धेन दारपदोत्तरजस विभक्तेस्स्वाऽभाववत्तया तत्सजातीयविभक्तिप्रकृतित्वात्सुन्दरपदे समानवचनत्वं सिद्धम् । विभक्तिसाजात्यञ्चेदानीं सुप्त्वेन बोध्यम् । वेदाः प्रमाणमित्यत्र तु प्रथमसम्बन्ध एव न गतस्तेन तत्र समानवचनत्व नियमो नेति तत्त्वम् । तथाहि, प्रमाणपदोत्तरसुविभक्त्यर्थे कत्वसंख्या विवक्षिता ततश्च वेदपदोत्तरजस्विभक्तिजन्यबोधविषयत्वेन तात्पर्यविषयीभृतसंख्या बहुत्वमिति तद्विरुद्वैकत्वसंख्याविषयकबोधकजनकत्त्वेन तात्पर्यविषयीभूतसुविभक्तिप्रकृतित्वसम्बन्धसत्वे तत्सम्बन्धेन प्रमाणपदे स्वाऽभाववत्त्वस्य वक्तुमशक्यत्वात् । ननु मिथिलादेशोद्भवत्यविशिष्टजनकापत्यत्वप्रवृत्तिनिमित्तेन प्रतीयमानाया मैथिल्या विशेषणत्वस्यैव न्याय्यत्वेन मैथिल्यो दारा इत्येवंविधप्रयोगस्यैव ज्यायस्तरत्वेन महानाटके “त्रिभुवनजयलक्ष्मीमैथिली तस्य दारा" इति कथम् दारपदे तृतीयसम्बन्धेन मैथिलीनिष्ठविशेष्यता वैशिष्ट्य सत्त्वात् समानवचनत्वं स्यादिति चेन्न १ तृतीयसम्बन्धस्याग्रे साधुत्ववत्त्वन्निवेश्यते तथा च तृतीयसम्बन्धाऽकारः स्वविशिष्टविभक्तिसजातीयवि भक्त्यव्यव हितपूर्वत्वसमानाधिकरणसाधुत्ववत्वेऽपि विभक्तिसाजात्यञ्चात्र सुप्त्वादिनैव बोध्यम् । तथा च फलितस्सम्बन्धः स्वविशिष्टविभक्ति वृत्तिश्राव णप्रत्यक्षवि षयतावच्छेदकधर्मवद्विभक्त्यव्यवहितपूर्वत्वसभानाधिकरणसाधुत्ववत्त्वम् । एवञ्च स्वविशिष्टा विभक्तिर्मैथिलीप दोत्तरसुविभक्ति स्तत्सजातीसुविभक्त्यव्यवहितपूर्वत्वसमानाधिकरणसाधुत्ववत्त्वं दारपदे नास्तीति तस्य बहुवचन एव प्रयोगादिति लक्षणसमन्वयाऽभावान्न समानवचनत्वमिति भावः । नन्वेवं सति नीला घटा इत्यत्र यद्यपि विशेष्यताप्रयोजकघटपदोत्तरजस्वि भक्तिसजातीयजस् विभक्त्यव्यव
३८