________________
शास्त्रार्थकलोपस्कृतः शिष्टविभक्तितात्पर्येत्यादि सर्व स्तोकपदेऽस्त्येवेति समानवचनत्वन्दुरमेवेति । किञ्च नियमे विभक्तिपदेन सुप एव ग्रह्म विवपोऽनुसंधानेन विशेष्यवाचकपदाऽव्यवहितोत्तरसुपोऽभावेन दोषाऽभावात् किबनुसन्धानेनवोपपत्तौ नान्योऽपि निवेशस्तत्रेति याव'द् इति चेन्न ? स्वविशिष्टा या विभक्तिरिति स्वरूपम्, तत्र वैशिष्टयञ्च पूर्वसम्बन्धविहाय स्वानवच्छेदकधर्मानवच्छिन्नविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वं स्वप्रयोजकपदोत्तरत्वम् , एवञ्च स्वानवच्छेदकसिद्धत्वधर्मावच्छिन्नैव, अन्त्याया विशेष्यतायास्तु स्वानवच्छेदकधर्मावच्छिन्ना धात्वर्थनिष्ठा विशेष्यता तन्निरूपितसंख्यानिष्ठप्रकारतैव नास्तीति विभक्तौ वैशिष्टयाऽभावेन स्तोकपदेऽपि वैशिष्टयमप्रसिद्धमिति समानवचनत्वमप्रसिद्धमिति तात्पांत् । सम्प्रति ग्रन्थस्थलक्षण एव दोषस्तथा हि सुन्दरा दारा शोभना रामदाराः इत्यत्र दारपदोत्तरजसविभक्तः पदसाधुत्वमात्रेण प्रयोगो न तु बहुसंख्याप्रयोजकत्वेन एकव्यक्तिमात्रबोधनतात्पर्येणैव तत्र जसः प्रयोगात् । न तु बहुत्वसंख्याप्रयोजकत्वेन “दाराः पुंसि च भूम्न्येवेति कोशस्वरसात् एकस्त्रीतात्पर्येणापि साधुत्वमात्रा. र्थक जसः प्रयोगः । एवञ्च विशेष्यवाचकपदं दारपदन्तदुत्तरविभक्तितात्पर्यसंख्येव नास्ति इति समानवचनत्वलक्षणसमन्वयाऽभावात्कदाचित् सुन्दरो दारा इति स्यान्न तु सुन्दरा दारा इति चेन्न ? विशेष्यताविशिष्टम्पदं स्वसमानवचनम् । पदे विशेष्यतावैशिष्टयञ्च स्वप्रयोजकपदोत्तरविभक्त्यभाववत्वसम्बन्धेन । विभक्तेरभावीयप्रतियोगितावच्छेदकसम्बन्धश्च स्वजन्यबोधविषयत्वेन तात्पर्यविषयीभूतसंख्याविरुद्धसंख्याविषयकबोधजनकत्वेन तात्पर्यविषयीभूतविभक्तिप्रकृतित्वरूपः । एवञ्च स्वं दारपदोत्तरविभक्तिर्जस् तज्जन्यबोधविषयत्वेन तात्पर्यविषयीभूतसंख्यैव नास्ति तथा च सर्वमप्रसिद्धमेवेत्युभयसम्बन्धेन स्वाऽभाववत्त्वस्य सुन्दरपदे विद्यमानतया समानवचनला जातमितिवर्णनात् । नन्वेवं स्तोकम्पचावित्यत्र धात्वर्थनिष्ठविशेष्यताविशिष्टं स्तोकपदमस्त्येवेति समानवचनत्वं स्यादेव । तथा हि विशेष्यताप्रयोजकविभक्तिरौविभक्तिस्तज्जन्यबोधविषयत्वेन तात्पर्यविषयीभूतसंख्या द्वित्त्वम् तद्विरुद्धैकत्वसंख्याबोधजनकत्वेन तात्पर्यविषयीभूता द्वितीयैकवचनाविभक्तिनास्ति इति तत्प्रकृतिकत्वं स्तोकपदस्याऽप्रसिद्धमिति । एवञ्चोक्तसम्बन्धेन स्वाभाववत्त्वात्स्तोकपदस्य समानवचनत्वं स्यादिति चेन ? पदे विशेष्यतावैशिष्टयनियामकस्सम्बन्ध एकचोक्त एव, द्वितीयश्च स्वनिरूपिताऽमेद. सम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वरूपः, तृतीयस्तु स्वविशिष्टविभक्तिसजातीयविभक्तिप्रकृतित्वरूपः। तृतीयसम्बन्धे विभक्तौ स्ववैशिष्टयश्च स्वावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वस्वप्रयोजकपदोत्तरत्वोभयसम्बन्धेन । एवञ्च स्तोकं सम्पदावित्यत्र स्तोकपदे आद्योभयसम्बन्धगमनेऽपि उभयसम्बन्धेन स्वविशिष्टविभक्तेग्भावात्ततीयसम्बन्धस्य स्तोकपदेऽनागमनात्ततीयसम्बन्धे विशेष्यताविशिष्टस्याऽसत्त्वात् न स्तोकपदस्य समानवचनत्वमित्याशयात् ।