________________
६
व्युत्पत्तिवादः विभक्तितात्पर्य विषयसंख्याया ग्रहणमुदासीनाभेदसम्बन्धावच्छिन्नप्रकारताया आश्रयणेन दोषदानस्यानुचितत्वात् ।
किञ्च-स्वविशेष्यताविशिष्टं यद्विशेषणवाचकम्पदन्तदिशेष्यताप्रयोजकसमानवचनम् । पदे विशेष्यतावैशिष्टयञ्च स्वनिरूपिताऽभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्व-स्वविशिष्टविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याविषयकबोधजनकत्वेन तात्पर्य विषयीभूतविभक्तिप्रकृतित्वाऽभाववत्त्वोमयसम्बन्धेन । विभक्तौ स्ववैशिष्टयञ्च स्वावच्छेदकध.
विच्छिन्नविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्व- स्वप्रयोजकपदोत्तरत्वीमयसम्बन्धेन । यथाऽत्रैव विबर्थनिष्ठविशेष्यताविशिष्टं सुन्दरपदं जातमेव । तथा हि प्रथमसम्बन्धस्तु सुतरां सुन्दरपदे जातः, औविभक्त्यर्थनिष्ठद्वित्वसंख्यायाःकिमर्थकर्तव्ये॒वान्वयः । एवञ्च स्वं कर्तविशेष्यता तदवच्छेदकधर्मावच्छिनविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वमस्ति एवं स्वप्रयोजकपदोत्तरत्वमपि विभक्तावस्तीत्युभयसम्बन्धेन स्वविशिष्टविभक्तितात्पर्येत्यादि सर्व सुन्दरपदेऽस्तोति समानपदत्वञ्जातम्परन्तु स्तोकपदे तु स्तोकपदार्थनिरूपितविशेप्यः पचधात्वर्थस्तनिष्ठविशेष्यताया उक्तोभयसम्बन्धेन विभक्तौ वैशिष्टयन्नास्ति । औविकक्तयर्थद्वित्वसंख्याया धात्वर्थेऽन्वयाभावाद् धात्वर्थनिष्ठविशेष्यतावच्छेदकधर्मावच्छिनविशेष्यतानिरूपितप्रकारतैव नास्ति । अतस्तत्प्रयोजकत्वमप्रसिद्धमेवञ्च द्वितीयसम्बन्धगमनेऽपि उभयसम्बन्धेन विभक्तेस्वविशिष्टाया अप्रसिद्धः। विशेषणवाचकस्तोकपदे प्रथमसम्बन्धगमनेऽपि उभयसम्बन्धेन विशेष्यतावैशिष्टयं स्तोकपदे नास्तीति न समानवचनत्वम् । ननु यत्र भावे कि बाहुलकात् "सम्पटादिभ्यः किब्वा वक्तव्य" इति वार्तिकाच्च तत्र किप्प्रत्ययेनाऽपि व्यापार एवोच्यते विभक्तयर्थद्वित्वसंख्यायाश्च व्यापार एवान्वयः । एवञ्च स्तोकं सम्पदावित्यत्रोमयसम्बन्धेन विशेष्यताविशिष्टविभक्तस्सवेन तत्तात्पर्येत्यादिसर्वस्य द्वितीयसम्बन्धस्य स्तोकपदे सत्त्वात् समानवचनत्वम्प्राप्तम् । अत्र यद्यपि साध्यतावच्छेदकरूपेण धातु तो व्यापारोपस्थितिः पृथगेव, विपप्रत्ययेन तु लिङ्गसंख्यान्वयितावच्छेदकरूपेण सिद्धावस्थापन्नव्यापारोपस्थि. तिः पृथगेव, तत्र क्रियाविशेषणानां कर्मत्वमिति न्यायसूत्रन्तु साध्यावस्थापन्नव्यापार एव स्तोकादीनामन्वये कर्मत्वं विदधाति, सिद्धावस्थापन्नव्यापारेऽन्वये तु स्तोका सम्पत् स्तोकः पाक इत्येव । एवञ्चोभयव्यापारोऽत्र सिद्धः तत्र विभक्त्यर्थसंख्यायाः किवर्थव्यापार एवान्वयः। एवञ्चोक्तोभयसम्बन्धेन स्वविशिष्ट विभक्तेरभावाद् धात्वर्थनिष्ठविशेष्यताया वैशिष्टयं स्तोकपदे न गतं किबर्थप्राप्तम् । निष्ठविशेष्यताया वैशिष्टयं च प्रथमसम्बन्धेन न गतमिति सर्वथा समानवचनत्वन्न तथापि विशेष्यतावच्छेदकं सम्पत्तित्त्वमपि तदवच्छिन्ना किबर्थनिष्ठविशष्यताऽप्यस्त्येवेति तन्निरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वं विभक्तावस्त्येवेति । स्ववि