________________
शास्त्रार्थकलोपस्कृतः नवचनत्वम् , अपि तु द्वित्वसंख्यायाश्शिष्टैर्विवक्षितत्वाद् द्विवचनान्तत्वमेव युक्तम् ।
वस्तुतस्तु-पुरूरवमाद्रवपदमकारान्तमेवेति विशिष्टाः।
नन्वेवनियमे स्तोकम्पचत इत्यादौ पचधातुरूपविशेष्यवाचकपदोत्तरविभक्तितात्पयविषयीभूतसंख्या च द्वित्वसंख्या तद्विरुद्धकत्वसंख्यायाः क्रियाविशेषणवाचकस्तोकादिपदेऽविवक्षितत्वात्समानवचनकत्वं स्यादिति चेन्न ? उक्तनियमघटकविभक्तिपदेन विशेध्यवाचकपदाऽव्यवहितोत्तरा विभक्तिर्गृह्यते । प्रकृते तु विशेष्यवाचकम्पदम्पच् इति शपा व्यवधानेनाव्यवहितोत्तरविभक्तयभावेनाक्षतेः। न च अदादौ शपो लुकि स्तोकमच इत्यादौ व्यवधानाऽभावादद्धातुरूपविशेष्यवाचकपदाव्यवहितोत्तरतिविभक्तितात्पयविषयद्वित्वसंख्याविरुद्धैकत्वसंख्याया अविवक्षितत्वेन समानवचनकस्वापत्तिर्दुवारैवेति वाच्यम् ? पूर्वोक्ताव्यवहितोत्तरत्वानिवेशलाघधेन विभक्तिपदेन सुविभक्त रेव ग्रहणात् । न च स्तोकम्पाकावित्यादौ स्तोकादेर्धात्वर्थविशेषणत्वेऽपि समानवचनकत्वापत्तिरिति वाच्यम् ? विशेष्यवाचकपदाऽव्यवहितोत्तरसु ब्विभक्तिग्रहणेन प्रकृते विशेष्यवाचकपचपदम् तदव्यहितोत्तरत्वन्न विभक्तेघञा व्यवधानात् । न च पच्धातोः किपि स्तोकम्पचावित्यादौ व्यवधानाऽभावेन समानवचनकत्वं स्यादेवेति वाच्यम् ? अभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासमानाधिकरणाया विशेष्यवाचकपदाऽव्यवहितोत्तरविभक्तितात्पर्यविषयसंख्याया ग्रहणेनात्र विभक्तयर्थसंख्यायाः कर्तृवृतित्वेनाऽदोषात् । किञ्च विभक्तिश्च विशेष्यविशिष्टा गृह्यते विभक्तौ विशेष्यवैशिष्टयञ्च स्वनिष्ठविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्व-स्ववाचकपदोत्तरत्वोभयसम्बन्धेन । यथा नीलो घट इत्यत्र घटनिष्ठविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वं स्ववाचकपदोत्तरत्वमपि विभक्तेरस्तीति लक्षणसमन्वयात्समानवचनकत्वम् । स्तोकम्पचावित्यादौ विभक्तयर्थसंख्यायाः विबर्थकर्तर्यन्वयो न तु पच्चात्वर्थव्यापारे विशेष्यस्तुभमेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावानेव गृयते । एवञ्च विशेष्यः पञ्चास्वर्थ एव परन्तु तनिष्ठविशेष्यतानिरूपितसंख्या निष्ठप्रकारतैव नास्ति । एवञ्च द्वितीयसम्बन्धसत्त्वेऽपि उभयसम्बन्धेन वैशिष्टयाऽभावाल्लक्षणसमन्वयस्याऽभावेन नात्र समानवचनत्वमित्याश्रयणात् । अत्र यद्यपि विभक्तौ किवर्थरूपवैशिष्टयमस्ति परन्तूक्तविशेष्याभावात् । इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः । नन्वेवं स्तोकं सुन्दरौ पचावित्यत्र सुन्दरावित्यस्य विबर्थक; सहाऽभेदान्वयस्तथा च अभेदसम्बन्धावच्छिन्नसुन्दरनिष्ठप्रकारतानिरूपितविशेष्यताश्रयरूपकिवर्थकर्ताऽस्स्ये. व। एवञ्च स्वं विशेष्यः विबर्थकर्ता तन्निष्ठविशेष्यतनिरूपितसंख्यानिष्ठप्रकारताप्रयोजकत्वम् स्वप्रयोजकस्तोकपदेऽपि स्यादिति चेन्न.१ प्रत्यासत्तिन्यायेन ययोर्विशेषणविशेष्यवाचकपदयोस्समानवचनकत्वमिष्टन्तादृशविशेषणवाचकपदप्रयोज्याऽभेदसम्बन्धाबच्छिन्नप्रकारतानिरूपितविशेष्यतासमानाधिकरणाया विशेप्यवाचकपदाऽव्यवहितोत्तर