________________
व्युत्पत्तिवादा द्वन्द्वे"इत्यादिसूत्रैद्विवचनस्यापि बहुत्वार्थकत्वेन घटरूपविशेष्यवाचकपदोत्तरसुजसाद्यर्थसंख्याविरुद्धसंख्याया अप्रसिद्धया तत्र समानवचनकत्वाऽसिद्धेः। अत्र नियमे संख्येत्युपलक्षणम् संख्यापदेन अपेक्षाबुद्धिविशेषविषयत्वादिरूपविभक्तिलक्ष्यस्याऽपि । अन्यथा नीला वर्णा इत्यादौ गुणे गुणानङ्गीकारात्समानवचनकत्वन्न स्यात् । नीला घटा इत्यादी तु संख्याया एव प्रतीतिरत एव नियमाकारे संख्यात्वेनापेक्षाबुद्धि विशेषविषयत्वेन च न संख्यायाः प्रवेशोऽपि तु विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयत्वेनैवेति फलितार्थः। अत्र नियमे विरुद्धत्वन्नाम स्वाधिकरणाऽवृत्तित्वार्थकत्वम् । अत्र पर्याप्तिसम्बन्धावच्छिन्नाया एव संख्यानिष्ठाधेयतानिरूपिताधिकरणताया ग्रहणन्तथा च बहत्वनिष्ठाधेयतानिरूपिताधिकरणता बहुष्वेव एकत्वनिष्ठाधेयतानिरूपिताधिकरणता एकत्रैवेत्यादि । अत एव नीलो गुणाविति वाक्यस्य न प्रामाण्यम् । भिन्नपदोपादाने तु विशिष्टसत्ताशुद्धसत्तानतिरिक्तत्ववत् संख्याया भिन्नत्वाद् नीलो गुणौ नीलो गुणा इत्यनिष्टमापद्येतैव । अतो भिन्नपदन्त्यक्त्या विरुद्धमिति कथितम् । अस्मिन्नियमे वाचकपदेन बोधकस्यैव ग्रहणमन्यथा लाक्षणिकविशेष्यवाचकस्याऽग्रहणाऽपत्तेः । वेदाः प्रमाणमित्यत्र जसविभक्तरेकत्वे लक्षणया जसर्थ एकत्वं तद्विरुद्धायास्संख्यायाः प्रमाणपदेऽभावादेतन्नियमाऽप्रवृत्तौ समानवचनत्वापत्तिदोषभिया तात्पर्यपदनिवेशो नियमे बोध्यः । इति परीक्षालेखप्रकारः ।
पुरूरवोमाद्रवसावितिनैमित्तिके कालकामौ काम्ये च धूरिलोचनौ ।
पुरूरवामाद्रवाश्च पार्वणे समुदाहृतौ ॥ क्रतुदक्षसत्यवसुकालकामधुरिलोचनपुरूरवीमाद्रवस इति विश्वेदेवपदवाच्याः । इष्टिश्राद्धादौ द्वयोर्द्वयोरेव प्रधानतया पूजन विहितम् । तत्र पुरूरवोमाद्रवसौ विश्वेदेवा इति तात्पर्य्यम् । तत्र विशेष्यवाचकं विश्वेदेवपदन्तदुत्तरवर्त्तिविभक्तिर्जसविभक्तिस्तत्तात्पयविषयसंख्या बहुत्वसंख्या त'वरुद्धाया द्वित्वसंख्याया एव विवक्षितत्वाद् न समा.
गुणे गुणानङ्गीकारादिति-घटादिगतनीलादिकम्प्रति कपालादिगतनीलादिकमेव हेतुः प्रतीयत इति गुणकार्यम्प्रति गुणस्यापि कारणत्वापत्तिरिति स्वाभीष्टप्संसिद्धये"समवायेन कार्यम्प्रति तादात्म्येन द्रव्यङ्कारणमिति नियममङ्गीकुर्वते तार्किकाः। तथा च समवायेन गुणम्प्रति व्यस्यैव कारणता नतु गुणस्येति फलितार्थः।
न चैको गन्धो रसात् पृथगित्यादिप्रतीत्या पृथक्त्वगुणस्य एकत्वसंख्यायाश्च गुण एवं प्रतीयमा. नतया नियमविरोध इति वाच्यम् ? एकार्थसमवायसम्बन्धेन तादृशी प्रतीति तु सनवायेनेति व्याख्यानेन नियमाविरोधात् । एकस्मिन्नर्थे ( अधिकरणे) यस्समवायरस एवैकार्थसमवायरसंसर्गः। यथा नीलो गुणो द्रव्ये वर्तते तथा एकत्वाद्यपीति परम्परासम्बन्धेन तथा प्रतीते।
वस्तुतस्तु स्वाश्रयसमवेतद्रव्यत्वसम्बन्धेन कपालादिगतनीलादेः घटादिगतनीलादिकम्प्रति हेतुस्वस्यावश्यवक्तव्यतया तादृशनियमो नाङ्गीकार्य एव ।