________________
शास्त्रार्थकलोपस्कृतः
३३ धि बहवो गुणा इत्यादौ सौन्दर्य एकत्वविवक्षया बहुशब्दतात्पर्यविषयबहुत्वविरुद्धकत्वसत्त्वात्समानवचनत्वानुपपत्तिपरिहारः फलम् । अविवक्षितत्वन्तु समानवचनत्वव्याप्यमेव व्याप्येन व्यापकानुमानम् । धूमेन वह्निः नहि व्याप्यधमाऽभावो वहन्यभाव. स्याऽपि प्रवर्तकः। अयोगोलके तप्तायः पिण्डे धूमाऽभावेऽपि वह्निसत्ताऽस्त्ये. व । समानवचनत्वं समानविभक्तिकत्वञ्चात्र प्रवेशनीयमत एव सुन्दरो घटमित्यादौ नाऽभेदान्वयापत्तिः। समानवचनत्वञ्च समानानुपूर्वी कत्वमेव । न च घटो द्रव्यमित्यादौ सोरमादेशे समानानुपूर्वीकत्वाऽभावात्कथमभेदान्वय इति वाच्यम् ? स्थानिवत्सूत्रबलेन स्थानिवृत्त्यानुपूर्वीमादाय समानवचनत्वसौष्ठवात् ।
किञ्च-विभक्तिविशिष्ट विभक्तिकत्वं वा समानविभक्तिकत्वम् ।
वैशिष्टयञ्च - स्ववृत्तिसुत्वौत्वजस्त्वाद्यन्यतमवत्वसम्बन्धेनेति केचित् । ननु विरुद्धत्वञ्च स्वाधिकरणाऽवृत्तित्वमेव तच्च न संघटते बहुत्वाधिकरणेऽपि वेदे स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन एकत्वसत्त्वाद् इति चेन्न ? स्वप्रकारकशानप्रतिबन्धकज्ञानप्रकारत्वमेव विरुद्धत्वम् । तत्सम्बन्धावच्छिन्नैकसंख्यात्वव्याप्यधर्मावच्छिन्नप्रकारताकबहुत्ववानित्यादिबुद्धिम्प्रति तत्सम्बन्धावच्छिन्नाऽपरसंख्यात्वव्याप्यधर्मावच्छिन्नप्रकार-. ताकैकत्ववानित्यादिबुद्धेः प्रतिबन्धकत्वादेव संख्ययोर्विरुद्धत्वसिद्धेः। ननु संख्यायां विरुद्धान्तविशेषणकिमर्थमिति प्रश्नः । यत्र विशेषणवाचकपदोत्तरविभक्त्या संख्याया अविवक्षितत्त्वन्तत्र समानवचनकत्वमेवेत्युक्तौ चिन्तामणिकारमतानुसारेण प्राचीननैयायिकमते विशेषणवाचकपदोत्तरविभक्त्याऽपि सर्वत्र संख्याप्रतीतिर्भवतीति तद्रीत्या नीलो घट इत्यादावपि समानवचनकत्वानुपपत्तेः । न च नव्यनैयायिकमते विशेषणवाचकपदोत्तरविभक्तिस्साधुत्वाथैव तथा चैतन्मते किमुत्तरमिति वाच्यम् ? विशेषणतादण्छेदके नीलत्वादौ यत्रैकत्वान्वयतात्पर्यन्तत्र समानवचनकत्वसिद्धयर्थन्तदुपादानात् । किञ्च एकत्वसंख्याया वेदत्वान्वयतात्पर्येण एकत्वसंख्यायाः प्रमाणत्वान्वयतात्पर्येण वेदः प्रमाणमिति विशेष्यविशेषणवाचके द्वे पदे एकवचनान्ते एव तत्र समा. नवचनत्वन्न स्याद् विशेषणवाचकपदोत्तरविभक्त्याऽपि संख्याया विवक्षितत्वात् । विरुद्धान्तनिवेशे तु विशिष्टाऽभावसत्त्वेन तत्राऽदोषात् ।
अत्र नियमे विभक्त्यर्थेति त्यक्त्वा विभक्ति तात्पर्यविषयेत्युपादानङ्किमर्थमिति चेन्न ? विभवत्यर्थेत्येतावन्मात्रकथने नीलो घटो नीला घटा इत्यादिष्वपि समानवचनकत्वन्न स्यात् । वेदे सुपां स्थाने ऋजवस्सन्तु पन्था इतिवत् “सुपां सुलुगि"ति पाणिनिसूत्रेण स्वादेशे बहुत्वप्रतीतिः। "छन्दसि पुनर्वस्वोः" "विशाखयोश्चेति सूत्राभ्यामेकवचनस्य द्वित्वार्थबोधकत्वम् । “जात्याख्यायामेकस्मिन्निति" "अस्मदो द्वयोश्चे"ति सूत्राभ्यां बहुवचनस्यैकत्व द्वित्वार्थकत्वेन “फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे"तिष्यपुनर्वस्वोर्नक्षत्र
३ व्यु०