________________
व्युत्पत्तिवादः यद्वाक्यघटकविशेष्यवाचकपदोत्तरत्वेनाभिप्रीयमाणधिभक्तिजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावच्छेदकसङ्ख्यात्वव्याप्यधर्मावच्छिन्नभिन्नसंख्यानिष्ठविषयताकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यत्वाऽभाववाद्विभक्तिकं विशेषणवाचकपदं तद्वाक्यघटकविशेष्यविशेषणवाचकपदव्यापकं
समानवचनत्वमित्यभिप्रायः । ननूद्देश्यतावच्छेकव्यापकत्वं विधेये यत्र न भासते तत्रैव समानवचनत्वनियमो नान्यत्रेत्येवन्नियमेनैव निर्वाहे यत्र विशेष्यवाचकपदोत्तरेति गुरुभूतनियमाश्रयणकिमर्थमिति
चेन्न ? घटाः प्रमेय इतिरूपापत्तेरनिवार्यत्वात् । न च विधेयपदेनात्र केवलान्वयिभिन्नविधेयस्य ग्रहणमिति न पूर्वोक्तापत्तिरिति वाच्यम् ? जातिमान् घटा इत्याद्यापत्तेस्सौष्ठवात् । यच्छन्देनात्र विशेष्यविशेषणवाचकपदवटितं वाक्यमेव, वाचकपदस्य बोधक इत्यर्थः । अत एव लाक्षणिकस्याऽपि विशेष्यपदस्य ग्रहणम् । उत्तरपदेनोत्तरत्वेनानुसन्धीयमानेत्यर्थोऽतएवेदन्दधीत्यादौ विशेष्यवाचकपदोत्तरं विभक्तरश्रवणेऽपि न क्षतिः । विभक्ति तात्पर्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेन तात्पर्य विषयेत्यर्थः । यथा नीला घटा इत्यत्र विशेष्यवाचकम्पदं घटपदन्तदुत्तरवर्तिविभक्तिर्जसविभक्तिस्ततात्पर्यविषयीभूता संख्या बहुत्वसंख्या तद्विरुद्धसंख्याया अविवक्षितत्वाद् नीलपदोत्तरमपि जसेव युक्त मिति समानवचनकत्वम् । एवं पितरो देवता इत्यादिष्वपि बोध्यम् । न च समानलिङ्गकस्थले समानवचनकत्वनियमेन "त्रयस्समुदिता हेतु" रित्यत्रानुपपत्ति सम्भवेऽपि असमानलिङ्गकस्थले न किञ्चिन्नियतन्निमित्तमिति कथम्प्रमाणानीत्यत्र बहुवचनानुपपत्तिश्शङ्कितेति वाच्यम् ? बहुवचनप्रयोगे हि कचिनियमो नियामकः । यथा नीला घटा इत्यत्र समानलिङ्गकेषु समानवचनकत्वरूपः । कचिच्च बहुत्यसंख्याबोधो घटानितिवत् । “प्रत्यश्चानुमानोपमानशब्दाः प्रमाणानी'त्यत्र तूभयविधत्वभावाप्रथमोपस्थितत्वाच्चैकवचनस्यैव भावाख्यातवत्साधुत्वात् । विशेषणपदोत्तरवचनेष्वनुगतन्निमित्तमाह-यत्र विशेष्यवाचकेति । घटा नीला इत्यादौ संख्यारूपो विभक्तथर्थः । नीला वर्णा इत्यादौ तु गुणे गुणानङ्गीकारादपेक्षाबुद्धि विशेषविषयत्वरूप एव विभक्तयों न तु संख्यारूप इति शक्यलक्ष्यसाधारण्येनाह-यत्र विशे"यवाचकेति । अत्र समानवचनत्वस्य न स्वरूपसत्कारणता किन्तु यादृशशाब्दबोधे विशेष्यवाचक्रपदोत्तरविभक्तितात्पर्यविषयसंख्याभिन्नसंख्याया विशेषणेन भानन्तादृशशाब्दबोध एव विशेष्यविशेषणवाचकपदयोस्समानवचनत्वज्ञानकारणमित्येव नियमोऽत एव घटा नीला इत्यत्र विशेष्यवाचकघटपदोत्तरविभक्तौ सुत्वभ्रमेण घटविषयकनीलविषयकशाब्दवोधात्पूर्व स्व. रूपसत्समानवचनपदाऽभावेऽपि न दोषः । विभक्तितात्पर्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेन तात्पर्यविषयेत्याशयः । यत्र विशेष्यवाचक्रपदोत्तरसुपतात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वमिति निवेशे स्तोकम्पचत इत्यादिदोषवारके विभक्तिग्रहणस्य चर्चेव नास्तीति किं स्पष्टार्थत्वेनेत्यलम् । अत्र विभक्तिपदं स्पष्टार्थमेव न तु सुन्दरन्द
अव्यवहितोत्तरेति-अव्यवहितोत्तरत्वन्तु स्वोत्तरत्वेन रूपेणानुसन्धीयमानं यत्तदुत्तरत्वेनानु. सन्धीयमानत्वं स्वोत्तरत्वेनानुसन्धीयमानत्वमित्युभयसम्बन्धेन स्वविशिष्टत्वम् ।