________________
शास्त्रार्थकलापरिष्कृतः इति त्रयः समुदिता हेतुरिति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव । एवमसमानलिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तमुश्चितमिति 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" पितरो देवता इत्यादेरनुपपत्तिः । मैवम् ,
यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः। अत एव पुरूरवोमाद्रव सौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योर्विशेषणतया विवक्षितत्वात्तद्वाचकस्य पदस्य द्विवचनान्तता ।
__त्रयस्समुदिता हेतुरितिअत्र हेतुपदस्य प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्ने लक्षणा । न च हेतुपदस्य हेतुत्वेऽपि शक्तिरस्ति हेतुत्व एवैकत्वान्वयस्तेनैव निर्वाहस्समुदायत्वे लक्षणा समुदायकत्वान्वयश्च निरर्थक इति वाच्यम् । अत्र समुदायत्वन्नामैकविशिष्टाऽपरत्वरूपमेवञ्च पार्थक्येन त्रयाणां हेतुत्वे विशेष्यविशेषणभावे विनिगमनावैकल्येन गुरुधर्मावच्छिन्नकारणस्वाधिक्यापत्तौ पृथगेव शक्तित्वेन शक्तनिपुणतात्वेन निपुणतायाः अभ्यासत्वेनाभ्यासस्य च कारणत्वस्वीकारात् । न चैकैकस्याऽपि पार्थक्येन कार्योत्पादकत्वाऽपत्तौ प्रतीतिविरोधस्समुदिता इति वैयापत्तिश्चेति वाच्यम् ? घटपटादिकार्यम्प्रति दण्डचक्रतुरीवेमादीनाम्पार्थक्येन परस्परसहकारित्वप्रसिद्धिवदिहाऽपि परस्परसहकारित्वे क्षतिविरहात् । तथा च लक्षणाश्रयणम्मूलोक्तं सयुक्तिकम्पयोजकता च शक्तिनिपुणताsभ्यासात्मके समुदाये काव्योत्पत्तिसमानाधिकरणाऽभावाऽप्रतियोगित्वरूपेति ।
यत्र विशेष्यवाचकेति--- __ यथा नीलो घट इत्यत्र विशेष्यवाचकं घटपदन्तदुत्तरवर्तिविभक्तिस्सुविभक्तिस्त. त्तात्पर्यविषयीभूता संख्या एकत्वसंख्या तद्विरुद्धा संख्या द्वित्वबहुत्वे तयोरविवक्षितस्वान्नीलपदोत्तरमपि सुविभक्तिरेव युक्तति समानवचनकत्वम् । एवं “प्रत्यक्षानुमाने'ति सूत्रेऽपि विशेष्यवाचकं शब्दपदन्तदुत्तरवर्तिजसविभक्तिस्तत्तात्पर्यविषयीभूता संख्या बहत्वसंख्या तद्विरुद्धैकत्वादिसंख्याया विशेषणवाचकप्रमाणपदेऽविवक्षितत्वात्समानबचनकत्वम् । वेदाः प्रमाणमित्यत्र तु विशेष्यवाचकम्पदं वेदपदन्तदुत्तरवर्तिजसविभक्तिस्तत्तात्पर्यविषयीभूता संख्या बहुत्वसंख्या तद्विरुद्धाया एकत्वसंख्याया विशेषण• वाचकप्रमाणपदे विवक्षितत्वान्न समानवचनकत्वम् । एवम्मैथिली तस्य दारा इत्यत्र विशेष्यवाचकम्पदम्मैथिलीपदन्तदुत्तरवर्तिविभक्तिस्सुविभक्तिस्तत्तात्पर्यविषयीभूता संख्या एकत्वसंख्या तद्विरुद्धाया एव विशेषणवाचकदारपदोत्तरजविभक्तितात्पर्यविषयीभू• ताया बहुत्वसङ्खथाया विवक्षितत्वान्न समानवचनकत्वमिति सङ्घटनप्रकारः।