________________
व्युत्पत्तिवाद: समानलिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः साधुस्वोपपादनेऽपि इति हेतुस्तदुद्भवे इति कारिकायाः । त्वकतृत्वसम्प्रदानत्वापादानत्वसम्बन्धाधिकरणत्वनिरूपिशतक्ततावच्छेदकत्वेन तेनैव धर्मेण साजात्याश्रयणेन काऽपि दोषो नास्तीति सिद्धान्तभूतो राजकीयपरीक्षालेखप्रकारः।
- अस्मद्गुरवस्तु--- सुप्त्वविशिष्टसंख्यावत्यै सुब्विभाजकत्वन्तेनैव साजात्यम् , सख्यायां सुप्त्ववैशिष्टयञ्च स्वव्यापकत्वस्वव्याप्यवृत्तित्वस्वाऽव्याप्याऽवृत्तित्वस्वव्याप्यविशिष्टभिन्नत्वमिति चतुष्टयसम्बन्धेन । चतुर्थसम्बन्धघटकवैशिष्टयञ्च स्ववृत्तित्व स्वेतरस्वसमानाधिकरणवृत्तित्वोभयसम्बन्धेन । स्वं सुप्त्वं तद्व्यापकत्वं सप्तत्वसंख्यायान्तद्वत्त्वम्प्रथमात्वादिषु सर्वत्र यत्र३स्वरूपसम्बन्धेन सुप्त्वन्तत्ररस्वाश्रयाश्रयत्वसम्बन्धेन सप्तत्वं प्रथमात्वादिगतम् । व्याप्यतावच्छेदकसम्बन्धश्चात्र स्वरूपसम्बन्धः व्यापकतावच्छेदकश्वात्र स्वाश्रयाश्रयत्वसम्बन्धः। सुप्त्वव्यापकता सप्तत्यसंख्यायान्तस्य व्याप्यं प्रथमात्वादि तवृत्तित्वमिति द्वितीयसम्बन्धः । सुप्त्वाऽव्याप्यं घटत्वादि तदवृत्तित्वमपि इति तृतीयसम्बन्धसङघटनप्रकारः। तस्य सुप्त्वस्य स्वपदबोध्यस्य व्याप्यम्प्रथमात्यादि तद्वैशिष्ट यन्तु नास्त्येव । तथा हि स्ववृत्तित्वरूपाद्यसम्बन्धसत्त्वेऽपि स्वेतरसमानाधिकरणेति द्वित्तीयसम्बन्धो नास्तीति तद्विशिष्ट भिन्नत्वं सप्तत्वसंख्यायामिति तद्वत्वेन प्रथमात्वद्वितीयात्वादिना साजात्येन क्षतिविरहादित्याहुः ।
समानलिङ्गकस्थले इति-- समानलिङ्गकत्वञ्च स्ववृत्तिपुंलिङ्गत्वाद्यन्यतमवयम् । पुंल्लिङ्गत्वादिकञ्च पाणिनी"यलिङ्गानुशासनप्रकरणानुसारेण चेतनाऽचेतनोभयविषयीभूतपरिभाषितत्वमत एव दारशब्दस्य पुंलिङ्गत्वम् । खट्वाशब्दस्य “स्तनकेशवती स्त्री स्याल्लोमशः पुरुषस्मृतः । उभयोरन्तरं यत्र तदभाव नपुंसकमि"ति संघटनाऽभावेऽपि स्त्रीत्वं सङ्गच्छते । तस्माल्लिङ्गनिर्णायकं लिङ्गानुशासनमेव । उपचयविवक्षायां पुंस्त्वमपचयविवक्षायां स्त्रीत्वमुपचयापचययोस्सामान्यविवक्षायां क्लीबत्वमिति तु शाब्दिकनये । नैयायिकमते त गुणत्रयानङ्गीकारात् । “विंशत्याद्यास्सदैकत्वे सर्वास्संख्येयसंख्ययो"रित्यनुशासनाच्छतब्राह्मणा इत्यादीनां साधुत्वमिति तात्पर्य्यम् ।
शक्तिनिपुणतेतिशक्तिः कवित्वबीजभूतस्संस्कारविशेषः "बुद्धिस्तात्कालिकी ज्ञेया मतिरागामिगोचरा । प्रज्ञान्नवनवोन्मेषशालिनीम्प्रतिभाग्विदुरिति शिष्टोक्तया प्रतिभाव्यपदेश्यः लोककाव्यशास्त्राद्यवेक्षणप्रयुक्तनिपुणता व्युत्पत्तिविशेषः। काव्यशशिक्षयाऽभ्यास इत्यस्य काव्यज्ञशिक्षाप्रयुक्तोऽभ्यास इति करणे योजने चेति त्रिनयमेवेति शब्देन "परामृश्यते।