________________
व्युत्पत्तिवादः एतद्देशे बहुघटसत्त्वदशायां ताशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः। पदन्तदर्थ एतद्देशवृत्तित्वन्तत्संसर्गित्वन्तत्संसर्ग एव स च संसर्ग एतद्देशवृत्तित्वीयस्वरूपसम्बन्धरूपस्तद्विशिष्टं यत्प्रकृत्यर्थतावच्छेदकं घटत्वन्तेन रूपेण सजातीयस्स एव घटस्तन्निष्ठो य एकपटभेदस्तत्प्रतियोगितावच्छेदकं तत्पटनिष्ठैकत्वन्तदनवच्छेदकं घटनिष्ठ मेकत्वमितिरीत्यैतदेशवृत्तित्वविशिष्टघटसजातीयेत्यस्य एतद्देशविद्यमानत्व समानाधिकरणघटत्ववत्वेन सजातीयाऽभावात् एतद्देशविद्यमानधटगतैकत्वस्य प्रसिद्धत्वात् । जात्ये कन्वादेन
सम्पन्नो व्रीहिरित्यत्रेव जातावकत्वान्वयः । स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वेन वा। स्वमेकत्वन्तदाश्रयीभूतं यत्प्रकृत्यर्थतावच्छेदकं घटत्वं तद्वत्त्वं सर्वेषु घटे विति तेन सम्बन्धेनानेकघटेष्वप्येकत्वसंख्यान्वये न क्षतिरित्यभिप्रायः । ___ अत्र तु शब्दप्रयोगाद्बहुघटसत्त्वदशायामत्र घटोऽस्तीति न भवति । पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति अन्वयितावच्छेदकरूपेणोपस्थितिः कारणमितिनियमात् घटत्वस्य जातित्वेन स्वरूपत एवोपस्थितिसत्त्वात् । तथा च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेतिप्रकार एव गरीयान । किञ्च जातावकत्वान्वयेनैव समर्थनेऽभिलाषश्चेत्तर्हि प्रकृत्यर्थतावछेदकतावच्छेदकसम्बन्धेन स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकमात्रावृत्तिधर्मेण साजात्यग्रहणे ग्रन्थकतु तात्पर्य वर्णनीयम् । एवञ्च घटपदसमभिव्याहृतं पदमत्रेति तदर्थश्चैतद्देशवृत्तित्वम् तस्य स्वरूपसम्बन्धेन संसर्गी घटस्तत्र घटप्रकृत्यर्थतावच्छेदकतावच्छे दकसम्बन्धस्समवायस्तेन वृत्तिर्यस्य तादृशघटत्वं तत्त्वम् । ताहशवृत्तित्वरूपं घटत्वेऽस्त्येव । किञ्च प्रकृत्यर्थतावच्छेदकमात्रवृत्तिधर्मों घटत्वत्वन्तच्च घटत्वे सामानाधिकरण्यसम्बन्धेन समभिव्याहृतपदार्थसंसर्गित्वविशिष्टो यः प्रकृत्यर्थतावच्छेदकमात्रवृत्तिधर्मी घट वत्वन्तेनैव धर्मेण घटत्वसजातीयं घटत्वमेवास्ति तन्निष्ठी भेद एकत्ववत् पटत्वभेदस्तत्प्रतियोगितावच्छेदकं पटत्वनिष्ट मेकत्वन्तदनवच्छेदकञ्च घटत्वनिष्ठमेकत्वन्तदेव सजातीयद्वितीयराहित्यम् अत्र घटोस्तीत्यत्र घटपटोत्तरैकवचनार्थः ।
इति परीक्षालेखप्रकारः ।
जातिलक्षणन्तु नित्यत्वविशिष्टानकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तिताश्रयत्वम् । यथा नित्यत्वविशिष्टानेक (घटादि ) निरूपितसमवायसम्बन्धावच्छिन्ना वृत्तिता घटत्वस्य तादृशवृत्तिताश्रयत्वञ्च घटत्वस्येति तस्य जातिवं सिद्धयति । संयोगादावतिव्याप्तिनिरासाय लक्षणघटकं नित्यत्वम् । आकाशपरिमाणादेस्तत्त्ववारणायानेकेति । अत्यन्ताभावादावतिव्याप्तिपरिहाराय समवायेति ।
विभुदयसंयोगाझीकत मते तादृशसंयोगस्य तथात्वापत्तौ संयोगमिन्नत्वं लक्षणेऽपरमपि निवेश्य - म् । अनेकपदस्य बहुत्वार्थकत्वेन वा निवेशाभावेऽपि वारग सम्भाव्यम् ।