________________
वादग्रन्थस्यानितरसाधारणतया कृत्स्नेऽपि कृतिवर्गे विद्वत्प्रायेषु छात्रेषु च भूयानादरातिशयो विलोक्यते । अस्य च पंडितराजमहामहोपाध्यायश्रीमद्गदाधरभट्टाचार्यचक्रवर्तिप्रणीतत्वमपि किमपि विजातीयं गौरवं सम्पादयति । यद्यपि ग्रन्थस्यैतस्य बहुशष्टीका यत्र तत्र मुद्रितास्समु. पलभ्यन्ते तथापि तासां काश्चनातिविस्तृताः काश्चनातितरां संक्षिप्ता इति छात्राणान्ततो बोधलेशमनुभूय प्रातःस्मरणीयस्वर्गीयश्रीमहामहोपाध्यायजयदेवमिश्रशास्त्रिणाम् परिभाषेन्दुशेखरविजयादिटीकाकृताम्मैथिलकुलसरोजसूर्याणाम् प्रधानशिष्याः शास्त्रार्थविद्यावतारसर्वतन्त्रापरतन्त्रदिगन्तविश्रुतकीर्बिपण्डितसार्वभौममहामहोपाध्याय-श्रीशिवकुमारशास्त्रिमिश्रमहोदयानामन्तेबसन्तः अस्मत्तातचरणा घटिकाशतकशतावधानसंस्कृताशुकविचक्रवर्तिवैयाकरण शिरोमण्याद्यनेकपदवीभृतो १ हिंसाखण्डनकौमुदी २ कौमुदीकल्पलतिका ३ परिकारदर्पणादिग्रन्थकृतो विख्यातशास्त्रार्थकीतयः पण्डितराज श्रीवेणीमाधवशुक्लशास्त्रिणः (जौनपुर बदलापुर उदयपुर गेल्हवाभिजनाः) शास्त्रार्थप्रचाराय परीक्षासमुत्तीर्णतायै च टीकामेनां शास्त्रार्थकलाभिधानां विरचय्य बहूपकृतवन्तः ।
टीकाकारैः प्रायशस्तत्तत्पदार्थविशेषाणां विशेषतोऽनुगमाय परीक्षा. लेखनप्रकारादिभिर्विभागो विहितस्तदपि सविशेष ग्रन्थाध्येत णां सं. य॑स्थानं स्यादिति न मनागपि संशीतिपदम् । न खल्वयं केवलं संस्कृतपरीक्षायां पाठ्यत्वेन प्रक्षिप्त इत्येतावतैवोपयोगी, परन्तु विद्यानुरागिभिः सर्वदा चिन्तितः कामपि नवीनां चमत्कृति प्रकटयितेति तदभ्यासेन स्पष्टमेव भवेत् ।
अपि च टीकायां मूले वा उपनिबद्धानां दुरूहानाम्पदार्थानां विशेषतः सौकाय टिप्पणीप्रदानेन विवरणमपि सम्पादितम् ततोऽपि लाभोऽवश्यं स्यात् इति दृढो मे विश्वासः । ___ व्युत्पत्तिवादस्यातिगहनस्य टीकादिकार्य नाल्पायाससाध्यन्तथापि चौखम्भासंस्कृतपुस्तकालयाध्यक्षमहोदयैर्भृशम्प्रबोधिताष्टीकाकारा अनेककार्यासक्ता अपि स्वीयममूल्यं समयमेतस्मिन् कार्ये व्ययीकृत्य शास्त्रार्थ