________________
कला रचितवन्त इति प्रबोधयितृमहाशयेभ्योऽपि भूरिशो धन्यवादान वितरामः ।
यद्यपि पूर्वसंस्करणापेक्षयाऽत्रसंस्करणे किश्चित्परिबर्द्धनमावश्यकमिवाभीष्टन्तथापि सत्वरमुद्रणावस्थतया तथा कर्तुं नापारीति विवेकशीलैः क्षन्तव्यम् । इह संशोधनकार्ये वाढं प्रयतितम् तथापि यत्र तत्राक्षरविन्यासजनिता अशुद्धयः पाठकमहोदयैरेव संशोध्य परिष्कर्तव्याः । प्रायो यन्त्रालयमुद्रिता ग्रन्थाश्चारु दृष्टा अपि कचित्तथैवाशुद्धिपिशाचिन्या दुष्टा भवन्त्येवेति न संशोधकः प्रतिभूः ।
सम्पिपादयिषितमपि गदाधरभट्टाचार्यजीवनवृत्तान्तं तदुपयुक्तसामग्रया बहुकालसम्पाद्यतामनुभूय साम्प्रतमुपेक्षितमिव । परन्तु भगवतस्सच्चिदानन्दस्यानुग्रहेण कदाचन सुयोग्यसमयमासाद्य तश्चरित्रमन्यत्र प्रकाशितं स्यादिति सुदृढं विश्वस्यते ।
आशास्यते च "गुणगृह्या वचने विपश्चितः” इति न्यायेन विद्वज्जना अनुग्रहीष्यन्तीति ।
विजया दशमी वि० सं० २०२५
विदुषामाश्रवस्यश्रीराजनारायणशुक्लस्य [एतग्रन्थसम्पादकस्य]