________________
ईषत् प्रास्ताविकम् अतिगभीरो हि तत्रभवत्या बाग्देवताया विस्तरः। न कोऽपि सकलभतार कारणात् सर्वज्ञाहते जगत्पितुस्तं विस्तरं वेद । अनन्तो हि वेदराशिः, निरवधिश्च तदङ्गप्रचारः, दुर्जेयञ्च शास्त्रगाम्भीर्यम् । तथापि तत्परिज्ञानार्थ यथासामर्थ्य यतनीयमेव । संसारस्यातिदुःखरूपतया तन्निवृत्तिरूपापवर्गसाधनतायास्तत एवावगमात् अदृष्टे ह्यर्थे ऽर्वाग्दशामस्मद्विधानाम् प्रमाणप्रवृत्त्यभावेन शास्त्रप्रमाणमन्तरा तदधिगमस्य सर्वथासम्भवात् । शास्त्रत्वञ्च हितबोधकत्वेन वेदेवेव प्रसिद्धमिति न केषामपि विप्रतिपन्नम् । एवञ्च प्रवृत्तिर्वा निवृत्तिा नित्येन कृतकेन वेत्यादि शास्त्रलक्षणमपि सङ्गच्छते । प्रवृत्तिनिवृत्तिबोधकवाक्यानां बहुशो वेदे दर्शनात् । अन्यत्रासत्त्वेऽपि तेषां व्युत्पत्तिसमर्पणद्वारा तादृशां वाक्यानामेव.परिपोषणात् तदर्थबोधकत्वमस्त्येव । तत्रापि व्युत्पत्तिसमर्पकत्वं सर्वैरपि “काणादं पाणिनीयञ्च" इति वदद्भिः प्रेक्षावद्भिः पाणिनीयस्येव काणादोपलक्षितस्य न्यायशास्त्रस्यापि कण्ठत एवोररीकृतम् । नहि व्युत्पत्ति विना तत्तच्छब्दानां स्वारसिकोऽर्थः प्रत्यभिज्ञातुं शक्यते । शब्दार्थज्ञानाभावे च वाक्यार्थज्ञानमपि दरापेतम् भवेत् , उभयोः परस्प‘मविनाभावलक्षणसम्बन्धाभ्युपगमात् । अतश्च व्युत्पित्सुभियायशास्त्र म पेतव्यम् । यद्यपि न्यायत्वम्प्रतिज्ञाहेतूदाहरणादिपञ्चकसमुदायत्वन्तथापि तत्सम्बन्धात् शास्त्रस्यापि न्यायत्वन्नासमञ्जसम् । तदिदं न्यायशास्त्रं गौतमकणादाभिधप्रवर्तकाचार्यभेदेन न्यायवैशेषिकसंज्ञे अप्यर्हति । अन्यत्र विप्रतिपन्नस्यापि प्रमाणचतुष्टयस्य न्यायतन्त्रेऽभ्युपगततया तदन्त:पातिन आगमप्रमाणोपजीव्यपदपदार्थसंसर्गजातस्य विचारितत्वाच्छब्दखण्डेऽस्यैव महतो ग्रन्थस्य ज्येष्ठत्वमिति सर्वोऽपि पण्डितवर्गः सोरस्ताडम्मन्यते । अत एव परम्परया शब्दप्रमाणविचारपटोरस्य व्युत्पत्ति