________________
शास्त्रार्थकलापरिष्कृतः
२ . च सत्वेन उभयसम्बन्धेन स्वव्याप्यविशिष्टत्वसत्त्वेन तद्भिन्नत्वस्य वक्तुमशक्यत्वेन द्वितीयसम्बन्धेन वैशिष्टयविरहादुक्तस्थले दशधेति प्रयोगाऽभाव इति । गुणादिमादाय दशधा द्रव्याणीत्यपि न प्रयोगस्तथा हि दशत्वसंख्यायास्स्वव्याप्यं क्षितित्वम् अप्त्वम् इत्यादि तव्याप्यं गुणत्वं तद्वृत्तित्वेन स्वव्याप्यभिन्नाऽवृत्तित्वविरहेण प्रथमसम्बन्धस्यानागमनादुक्तानिष्टप्रयोगाऽभावात् ।।
अथ सप्तधा पदार्थ इत्यत्र स्वव्याप्यो द्रव्यत्वगुणत्वादिः तद्भिन्नत्वस्याऽप्रसिद्धया स्वव्याप्यभिन्नवृत्तित्वस्य सुतरामप्रसिद्धेः प्रथमसम्बन्धेन वैशिष्टयविरहात् सप्तधा पदार्थों न स्यादिति चेत्सत्यम् ? तत्सम्बन्धस्थाने स्वव्याप्यभिन्नवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाऽभाववत्त्वरूपस्सम्बन्धी गृह्यते । एवञ्चाऽप्रसिद्धत्वादेव तत्सम्बन्धे तदभाववत्त्वस्य सस्तत्वसंख्यायां सत्त्वात् ।।
अथ क्षितिं विहाय घटमादाय नवधा द्रव्याणीतिप्रयोगः कस्मान्न भवति तत्री. भयमुख्यसम्बन्धस्य सस्वात् । अथवा घटं विहाय अष्टधा द्रव्याणीति वाक्यतो नेति चेदत्र कुशाग्रबुद्धयः, स्वव्याप्यवृत्तियेस्स्वाश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावस्तत्प्रतियोगित्वमिति तृतीयसम्बन्धदानेन न दोषस्तथा हि स्वव्याप्यं क्षितित्वं तत्तिर्या स्वाश्रयत्वसम्बन्धेन क्षितिं विहाय घटमानयेति नवत्वसंख्या नास्तीत्याकारकाऽभावीया प्रतियोगिता तत्प्रतियोगिताकत्वस्य अथ चोक्तरीत्या अष्ट. त्वसंख्या नास्तीत्याकारकाऽभावस्तत्प्रतियोगिताकत्वस्य च सत्त्वेन तादृशाऽभावा
प्रतियोगित्वविरहेण निरुक्तरीत्या नवत्वसंख्यायामष्टसंख्यायाञ्च वैशिष्टयविरहान्नोक्तप्रयोग इति वदन्ति । तन्न ? तथा सम्बन्धस्वीकारे क्षित्यादिनवाऽदाय इष्टस्थलेऽपि नवधा द्रव्याणीति प्रयोगे नवत्वसंख्यायान्तृतीयसम्बन्धेन वैशिष्टयस्याऽप्रसिद्धयापत्तेः। यतो हि स्वव्याप्ये घटत्वे निरुक्तसम्बन्धेन योऽभावस्तत्प्रतियोगित्वस्यैव नवत्वसंख्यायां सत्वात् । तस्माद्वक्ष्यमाणसम्बन्ध एव ज्यायान् । तथा हि- स्वाश्रयवृत्तिर्यस्स्वाश्रयाश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाऽभावस्तत्प्रतियोगित्वरूपस्य निवेशः । स्वं द्रव्यस्वं तदाश्रयो द्रव्यं तत्र द्रव्ये स्वन्नवत्वसंख्या तदाश्रयः क्षितित्वं तदाश्रया क्षितिः तद्रूपे घटरूपे च द्रव्ये नवत्वसंख्यासत्त्वे निरुक्तसंसर्गेण नवत्वसंख्याप्रतियोगिकाऽभावविरहेण निरुक्तसंख्यायां स्वप्रतियोगित्वासिद्धेः । अष्टधा द्रव्याणीत्यस्य वारणन्तु भवत्येव । यतो हि स्वाश्रयक्षियां निरुक्तसम्बन्धेनाष्टत्वसंख्याप्रतियोगिकाऽभा
गुणत्वमिति--सामान्यमेतद् गुणत्वं जातिरुपाधिश्च "सामान्यं द्विविध जातिरुपाधिश्चेति वर्द्धमानोपाध्यायसिद्धान्तात ।
गुणवजातेस्सिद्धिस्त्वनुमानविधया, तथा हि-द्रव्यकर्मभिन्नेसामान्यवति या कारणता सा किञ्चिधर्मावच्छिन्ना कारणतात्वादिति अन्यूनानतिप्रसक्तधर्मस्यावच्छेदकतासिद्धान्ताद् गुणत्वावच्छिन्नत्वसिद्धया "गुणत्वं जाति: जातिबाधकप्रमाणशल्यत्त्वाद् घटत्वादिवदि"त्यनुमानेन जातित्वप्रतिपादने व्याघाताभावात् । परमाणुसाधारण्याय गुणपदशक्यतावच्छेदकविधया वा गुणत्वजातिसिद्धरिति ।