________________
२८
व्युत्पत्ति वादः
वसत्त्वेन निम्क्ताष्टत्वसंख्यायाः प्रतियोगित्वस्यैव सत्त्वेन तृतीयसम्बन्धेन वैशिष्ट्यविरहान्न दोषः । तथा च स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मविशिष्ट संख्यावत्त्वं विभाजकत्वम् | वैशिष्टयञ्च स्वव्याप्यभिन्नवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाऽभा स्वव्याप्यविशिष्टभिन्नत्व स्वाश्रयवृत्तिर्यस्स्वाश्न याश्रयत्व सम्बन्धावच्छिन्नप्रति-योगिकाऽभावस्तत्प्रतियोगित्वैतत्त्रितय सम्बन्धेन । इदमपि बोध्यम्, क्षितिं विहायघटरूपपृथिवीमादाय नवधा द्रव्याणीत्यपि न १ घटरूपपृथिव्यां निरुक्त सम्बन्धेन योऽभावस्तप्रतियोगित्वस्यैव नवत्वसंख्यायाम्भासमानत्वाद् इत्यलम् ।
ववत्त्व
विभक्तिविभाजकसुब्विभाजक धर्मनिर्वचनापेक्षयाऽत्रैव लाघवम् ।
अत्रायम्प्रकारः
ननु विभक्तिविभाजकत्वन्नाम किमिति प्रश्नः । न च विभक्तित्वविशिष्टत्वं विभक्तिविभाजकत्वम्, वैशिष्ट्यं च स्वव्याप्यत्व-स्वव्याप्याऽव्याप्यत्वमित्युभयसम्बन्धेन । स्वाभाववदवृत्तित्वं व्याप्यत्वं स्वं विभक्ति त्वन्तद्व्याप्यत्वम्प्रथमात्वे इति प्रथमसम्बन्धः । स्वं विभक्तित्वं तद्व्याप्यत्वम्प्रथमात्वे तद्व्याप्यं सुत्वादि तदद्वृत्तित्वेन अर्थात् सुत्वमात्रावृत्तित्वेन स्वव्याप्याऽव्याप्यत्वरूपद्वितीयसम्बन्धसंघटनेन तवसिद्धिरिति वाच्यम् ? विभक्तित्वधर्मव्याप्यं सुप्त्वन्तद्व्याप्यम्प्रथमात्वाद्यन्यतमधर्म इति द्विती-यसम्बन्धाऽसंघटनेन प्रथमात्वादेर्विभक्तिविभाजकत्वानापत्तेः । न च विभक्तित्वविशिष्टत्वं विभक्तिविभाजकत्वम् । विभक्तित्वविशिष्टत्वञ्च विभक्तित्वव्याप्यत्वमेवेति लक्षणेन विभक्तित्वधर्मापेक्षया प्रथमात्वस्य व्याप्यत्वेन विभक्तिविभाजकत्वं सिद्धमेवेति षाच्यम् ? सु औ जस् इत्यन्यतमस्याऽपि विभक्तित्वधर्मव्याप्यत्वेन सुत्वौत्वादीनामपि विभक्तिविभाजकत्वापत्तेः । न च "विभक्तिचे" ति विभक्तिसंज्ञाविधायकं सूत्रमंत्र विभक्तिपदेन सुप एव ग्रहणम् । विभक्तिविभाजकेत्यस्य सुब्विभाजकधर्मेणेत्यर्थः । सुप्त्वविशिष्टत्वं सुब्विभाजकत्वम् | वैशिष्ट्यञ्च स्वव्याप्यत्व स्वव्याप्याऽव्याप्यत्वोभयसम्बन्धेन । स्वं सुप्त्वन्तद्व्याप्यता प्रथमात्वेऽस्तीति प्रथमात्वव्याप्यं सुत्वादि तद्रहितस्वेन सुप्त्वव्याप्याऽप्याप्यत्वञ्जातमेवेति न दोष इति वाच्यम् "सुडनपुंसकस्येति सूत्रेण पाणिनिना सङ्केतितं सर्वनामस्थानपदं स्वादिपञ्च प्रत्ययबोधकन्तथा च स्वं सुप्त्वन्तद्व्याप्यं सर्वनामस्थानत्वं तद्द्व्याप्यता प्रथमात्व इति प्रथमसम्बन्धस्य कदाचिसंघटनेsपि द्वितीय सम्बन्धाऽसंघटनादव्यासे दुर्वारत्वात् । नच अनपुंसकस्येति पर्युदासे नपुंसके सर्वनामस्थानसंज्ञा न भवति तत्र प्रथमात्वस्य स्वव्याप्याऽव्याप्यत्वेन नाऽपत्तिरिति वाच्यम् ? "अनाऽप्यक" इति सूत्रे आबिति टा इत्यारभ्य सुपः पकारेण
अन्यतमधर्मं इति--अन्यशब्दात् “वा बहूनां जातिपरिप्रश्ने डतमच्” इति सूत्रीयो उतमच्प्रत्ययः । अत एव बहूनां मध्ये एकोऽन्यतम इति लोकानानिश्चयः ।
तत्त्वञ्च तद्भिन्नभिन्नत्वम् । यथा घटान्यतमत्वन्नाम घटभिन्नभिन्नत्वं घटे एवेति स्वस्स्वान्यतमो भवतीति फलितार्थः ।
एवम् अन्ततस्त्वमपि व्याख्येयम् ।