________________
२६
व्युत्पत्तिवादः
केन मतुपो लुग्विधानेन अस्यापत्यम् इः इयानितिवत् " यरिशष्यते स लुप्यमानार्था-मिधायो” ति न्यायेनाऽस्त्यर्थसत्ताया घटादौ विद्यमानत्वादभेदान्वये क्षतिविरहादिति शुक्ला: ।
ननु प्रकृते विभाजकलक्षणस्यानुपयोगेऽपि नवधा द्रव्याणि विभजत इत्यादी स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्य मिथो विरुद्ध यावद्धर्मप्रकारकज्ञानानुकूलव्यापारी वि. भजतेरर्थः । स्वं विपूर्वको भज् तत्समभिव्याहृतपदार्थों द्रव्यपदार्थः पदार्थतावच्छेदकं द्रव्यत्वं तद्व्याप्य मिथोविरुद्धयावद्धर्मः क्षितित्वादिकमर्थात् अन्त्वं तेजस्त्वं वायुत्वम् आकाशत्वमित्यादिकन्तत्प्रकारकज्ञानानुकूलव्यापारः क्षितित्वं वायुत्वम् आकाशत्वम् अत्वम् इत्येवंरूपस्तथा च क्षित्यादिनव घटश्चादाय दशधा द्रव्याणीति प्राप्नोति । वटत्वस्य क्षितित्वेन प्रसिद्धत्वाऽभावेऽपि तेषाञ्जस्त्वादिनानाविरुद्धधर्मसत्त्वादिति चेन्न ? “संख्यायाः प्रकारे धे"ति व्याकरणवार्त्तिकस्यायमर्थः स्वसमभिव्याहृत पदार्थतावच्छे. दकविशिष्टा या संख्या तद्वाचकाद् धाप्रत्ययो भवति तत्संख्यावान् धर्मस्य विभाजको भवतीत्यर्थः, पदार्थतावच्छेदक वैशिष्ट्यञ्च संख्यायां स्वव्याप्यभिन्नाऽवृत्तित्व-स्वव्याप्यविशिष्टत्वोभयसम्बन्धेन । सम्बन्धघटक वैशिष्टयञ्च स्ववृत्तित्व-स्वव्याप्यवृत्तित्वोभयसम्बन्धेन । तथा च घटमादाय दशत्वसंख्यायास्स्वव्याप्यं घटत्वं तद्वृत्तित्वेन स्व. व्याप्याऽवृत्तित्वसम्बन्धघटक सम्बन्धविरहाद् दशत्वसंख्यावाचकाद्धाप्रत्ययाऽप्राप्तेः । ननु घटमादाय दशत्वसंख्यायामपि स्वव्याप्यं तेजस्त्वं तद्व्याप्यसुवर्णत्वादाववृत्तित्वेन द्वितीयसम्बन्धघटकस्य द्वितीयसम्बन्धस्य गमनाद् दशधा द्रव्याणीति रूपं स्यादेवेति चेन्न ? मुख्यद्वितीयसम्बन्धस्थाने स्वव्याप्य विशिष्ट भिन्नत्वरूपस्सम्बन्धो देयः । व्याप्यवैशिष्ट्यञ्च स्ववृत्तित्व स्वव्याप्यवृत्तित्वोभयसम्बन्धेन । तथा च स्वव्याप्यं क्षितित्वं तद्व्याप्यघटत्वे वृत्तित्वेन स्वव्याप्यवृत्तित्वरूपद्वितीयसम्बन्धघटकद्वितीय सम्बन्धस्य कत्वाद् 'रसादिभ्यश्चेत्यत्र च गुणवाचकरसादिग्रहणेन कथमिहेन्प्रत्ययो मतुपा भाव्यमित्याशङ्का परास्ता । न च गुणवाचकरसादिग्रहणे मानाभावेन तथा व्याख्यानमयुक्तम् ? सूत्रीय “गुणात् " इति गणवार्तिकेन तथा कल्पात् ।
विभजत इति -- स्वसमभिव्याहृतपदार्थतावच्छेदक व्याप्य मिथोविरुद्धयाव द्वप्रकारक बोधानुकूलो व्यापारी विपूर्वक भजधात्वर्थः ।
प्रकृते द्रव्याणि विभजत हत्यत्र स्वं विपूर्वक भजधातुः तत्समभिव्याहृतम्पदं द्रव्यपदन्तदर्थताबच्छेदकं द्रव्यत्वन्तद्व्याप्या मिथोविरुद्धा यावन्तो धर्माः क्षितित्वादयो नवसङ्ख्या कास्तत्प्रकार कबोधानुकूलव्यापारः क्षितिः आप इत्यादिशब्दप्रयोगात्मकः । स्वसमभित्र्याहृतत्वञ्च स्वविशिष्टत्वम् वै० स्वाव्यवहितपूर्वत्व स्वाव्यवहितोत्तरत्वान्यतरसम्बन्धेन ।
धात्वर्थकुक्षौ व्याप्येत्यंशानुपादाने द्रव्याणि विभजते इति प्रतिज्ञाय कर्म तेज आकाशमित्यादिशब्दप्रयोगस्यापि विभागत्व प्रमात्वापत्तेः । एवं क्षितिः पट इत्यादिशब्दमात्रस्यापि विभागत्वापत्तिवारणाय मिथो विरुद्धम् । केवलं व्याप्यमात्रमुपादाय क्षितिः आपस्तेजांसि इत्यादिप्रयोगस्यापि तत्त्ववारणाय यावत्वमुपादेयमिति ।