________________
शास्त्रार्थकलापरिष्कृतः वेदाः प्रमाणं शतं ब्राह्मणा इत्यादावन्वयबोधानुपपत्तेः । ननु "विंशत्याद्या सदैकत्वे" इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेऽपि वेदाः प्रमाणमित्यादयः कथं प्रयोगाः, विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात् । अन्यथा घटा नील इत्यादे. रपि साधुताप्रसङ्गात् ।।
चन्द्रे कलकरसुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला। मुखाऽप्रसादस्सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ।।
इत्यादिष्वेकैव रीतिः "श्यालास्स्युभ्रातरः पत्न्यास्स्वामिनो देवृदेवरा"वित्यप्राऽपि भ्रातर इत्यस्य बहुवचनान्तत्वेऽपि द्वित्वविवक्षया देवृदेवराविति द्विवचनं सुगतम् । देवृदेवरपदयोस्स्वस्ववाच्ये लक्षणा । अत एव लक्ष्यतावच्छेदकयोर्देवृदेवरयोद्धित्वान्वयः । अत एव पदार्थतावच्छेदकभेदाद् द्वन्द्वोऽपि समीचीन इति विशिष्टो विचारः । किञ्च
सिद्धस्य गतिश्चिन्तनीयेति न्यायेन लोके नीलो घटा इति प्रयोगः कैरपि न प्रयुज्यते तस्माक्लिष्टकल्पनया न तादृशः प्रयोग इत्यपि शुक्लाः ।
नीलपदस्य नीलगुणविशिष्टे लक्षणया लक्ष्यतावच्छेदकनीलस्यानन्तत्वात्सजातीयरहितत्वात्मकैकत्वस्याऽभावन नीलो घटा इत्यादेरयुक्तत्वात् । प्रकृत्यर्थतावच्छेदकतावच्छेदकैकत्वान्वयस्य सर्वानुभवविरुद्धत्वात् । किञ्च
क्रियतामवच्छेदकतावच्छेदक एकत्वान्वयः परन्तु विशेषणतावच्छेदके विशेषण...तावच्छेदकतावच्छेदके वा यद्येकत्वान्वयस्य किञ्चिदपि प्रयोजनं लभेत । न च वेदाः प्रमाणमित्यत्र किम्प्रयोजनमिति वाच्यम् ? तत्रैकत्वविवक्षाप्रयोजनन्तु चार्वाका. द्यागमानाम्प्रमाणत्वनिराकरणरूपम् । अत्र नीलत्वे एकत्वान्वयस्य न किमपिफलम्प्रयोजनं वाऽपि श्रूयते । तथा च नीलो घट इत्येव प्रयोगो न तु नीलो घटा इत्यादीति ।
ननु नीलपदार्थगुणस्य कथं घटेऽन्वयोऽभेदेनेति चेन्न ? नीलशब्दात् “तदस्याऽस्त्यस्मिन्निति मतुबि'ति सूत्रेणास्त्यर्थे मतुपि "गुणवचनेभ्यो मतुपो लुगिष्ट" इति वात्ति
णवचनेभ्य इति-गुणास्समवायेन द्रव्यवत्तिनः गुणवाचकेभ्यश्शब्देभ्यो द्रव्यबोधनाय जातानाम्मतुपा लुगनेन वार्तिकेन विधीयते । शुक्लो घट इत्यादि। । ननु तार्किका हि गुणपदार्थव्याख्यानावसरे रूपादीन् चतुर्विंशतिसङ्ख्याकान् व्याचक्षते । तथा च उष्णस्पर्शवत्तेज इत्यादौ बात्तिकेनतेन मतुपो लुक कुतो नेति चेन्न? "रसादिभ्यश्च" इति पृथमतुविधायकारम्मसामर्थ्याद"गुणवचनेभ्य इति वात्तिके गुणत्वव्याप्यव्याप्यशुक्लत्वादिधर्मावच्छिनानामेव सप्तानां ग्रहणबोधनात् । अत एव "गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" इति कोशस्वरसोऽपि सङ्गच्छते । रूपिणी कन्या रसिको नट इत्यादी क्रमशो रूपरसशब्दयोस्सौन्दर्यभावार्थ