________________
. व्युत्पत्तिवादः . मित्यादिस्थले प्रथमात्वद्वितीयात्वाद्यन्यतमधर्मेणैव गृह्यते ।
ननु प्रथमात्वाद्यन्यतमधर्मेणैव साजात्यग्रहणे प्रथमात्वन्नाम प्रथमसंख्यापूरकत्वम् , द्वितीयात्वन्नाम द्वितीयसंख्यापूरकत्वम्, तृतीयात्वन्नाम तृतीयसंख्यापूरकत्वमित्येवाभिप्रायो वक्तं शक्यते । एवञ्च घटानान्नीला इत्यादावपि नीलपदोत्तरजविभक्तिगतबहुत्वपरकत्वं घटपदोत्तरविभक्तरपि बहुत्वसंख्यापूरकत्वेन साजात्यात्तत्प्रकृत्युपस्थायघटादेरपि अभेदान्बयापत्तिरित्यत आह विभक्तिविभाजकेति । विभक्ति विभाजकेस्यस्य विभक्तित्वव्याप्येत्यर्थः। तथा च समुदायार्थी विभक्तित्वव्याप्यप्रथमात्वाद्यन्यतमधर्मेणेत्यर्थः । द्वित्वादिसंख्यापूरव त्वस्य तु विभक्तित्वव्याप्यत्वाऽभावात् । किन्तु सङ्केतसम्बन्धेन प्रथमापदवत्त्वादेरेव तद्व्याप्यत्वात् ।।
ननु विभक्तिविभाजकेन येन केनाऽपि धर्मेण साजात्यमुच्यताङ्किमितिप्रथमात्वा. दिनैवेति चेन्न ? "सुडनपुंसकस्ये"ति सूत्रबलेन स्वादिपञ्चानां सर्वनामस्थानसशा अन्येषां शसादीनान्न । एवञ्च विभक्ति विभाजकमर्वनामस्थानसंज्ञकत्वेन साजात्यापत्तौ घटो नीलमित्यादौ घटपदोत्तरसुविभक्तिगतसर्वनामस्थानत्वस्य नीलपदोत्तराम्विभक्तावपि सत्त्वेन साजात्यापत्तौ अभेदान्वयापत्तेस्तस्माद् ग्रन्थोक्तस्सम्यगेवेति । ननु,
या विशेष्येषु दृश्यन्ते लिङ्गसंख्याविभक्तयः ।
प्रायस्ता एव कर्त्तव्यास्समानार्थे विशेषणे ॥ इति भर्त हरिपद्ये प्रायःपदोपादानेन शिष्टप्रयोगे चिरन्तनमर्यादासंरक्षणाय कचित्. सामानलिङ्गकत्वाद्यभावेऽपि न विरोधः ।
ननु वेदाः प्रमाणमिति वत् नीलत्वगतैकत्वविवक्षया घटा नील इत्यपि प्रयोगः कुतो न १ न च नीलो घट इत्यादौ गुणिपरन्नीलपदं गुणवाचकत्वेन त्वप्रत्ययार्थोऽपि गुणः वाचकमाहात्म्यात् । तथा च गुणत्वाजात्यतिरिक्तत्वेन नीलत्वत्वेनोपस्थितिस्तथा च कथन्नीलत्वान्वयतात्पर्येणैकत्वव्यवस्थेति वाच्यम् ? नीलं रूपमित्यादी गुणिपरत्वा. ऽभावेन जात्यतिरिक्तत्वाऽभावेनाजातित्वेन नीलत्वस्यैवोपस्थित्या तत्र नीलत्व एकत्वान्वयतात्पर्येण तादृशः प्रयोगः कुतो नेति तात्पर्यात् । किश्च प्रथमात्वेन साजात्याश्रयणमनुभवसिद्धम् । तथा च नीलो घटौ नीलो घटाः इत्येवम्प्रयोगः कुतो नेति चेन्न ? इष्टाऽपत्तेः । अत एव चत्रो मैत्रश्च सुन्दरावित्यादीनि रूपाणि सङ्गच्छन्ते । तत्र तु चैत्रपदार्थे एकत्वस्य द्वित्वविशिष्टसुन्दरस्य चान्वयः, एकत्र द्वयमिति न्यायानुसन्धानात् । एवं
शुम्भो निशुम्भश्चैवान्यौ उत्पत्स्येते महासुरौ ।
ब्रूहि शुम्भ निशुम्भञ्च दानवावतिगवितौ ॥ चैत्रो मैत्रश्च गच्छतः,