________________
२३
-
--
शास्त्रार्थकलापरिष्कृतः साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीकत्वं साजात्यम् । साजात्यमस्त्येवेति समानविभक्तिकत्वेनाऽभेदान्वयः । प्रमीयतेऽनेनेति प्रमाणम् , प्रमितिकरणं प्रमाणम् । तथा च प्रमितिकरणतावन्तो वेदा इति शाब्दबोधः ।
साजात्यञ्च विभक्तिविभाजकेति-- स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वम् । समानानुपूर्वीकत्वन्नाम-स्ववृत्यानुपूर्वीसजातीयानुपूर्वीकत्वम् ।
आनुपूर्वीत्वचवर्णानाम्पूर्वापरीभावरूपम् । यथा घट इत्यादौ घकारोत्तराकाराकारोत्तरटकारटकारोत्तराकार इति । पूर्वस्य योग्यमनुपूर्वम् अनुपूर्वमेवानुपर्वी स्वार्थिकः "प्रज्ञादिभ्योऽणि त्यण् तदन्तत्वान्डीप। कम्बुग्रीवादिमव्यक्तयवच्छिन्नशक्तघटपदसमानानुपूर्वीकत्वं घश्च टश्चानयोस्समाहारो घटमित्यादौ ।
तत्समानानुपूर्वीकत्वन्तस्मिन्निति तत्तद्वर्णोत्तरतद्वर्णवत्त्वन्तत्समानानुपूर्वीकत्वम् इति सामान्यलक्षणम् , न चैवं लक्षणे घकारोत्तराकाराकारोत्तरटकारटकारोत्तराकाराकारोत्तरत्वस्य नीलघटेति समुदायेऽपि सत्त्वात् घटपदसमानानुपूर्वीकत्वं नीलघटेति समुदायस्याऽप्यापद्यतेति वाच्यम् ? तत्पदविशिष्टतस्पदत्वन्तत्समानानुपूर्वीकत्वम् । वैशिष्टयञ्च स्वघटकतानवच्छेदकावच्छिन्नाघटितत्व - स्वघटकताऽनवच्छेदकावच्छिन्नाऽघटितत्वसम्बन्धावच्छिन्नस्ववृत्तित्वोभयसम्बन्धेन । तथा च घटपदसमानानुपूर्वीकत्वन्न नीलघटे, घटपदघटकतानवच्छिन्ननीलत्वावच्छिन्नघटितत्वेन लक्षणेऽव्यभिचारात् । _ ननु पदत्वस्य पाणिनीयसङ्केतसम्बन्धेन पदत्ववत्परत्वेनानुगतत्वेऽपि सरो रसः नदी दीनः राज-जरा ताल-लता इत्यादिशब्दानां समानानुपूर्वीकत्वमापद्यतेति वाच्यम् १ स्वार्थबोधप्रयोजकतावच्छेदकधर्मवत्त्वमिति तृतीयसम्बन्धनिवेशात् । लतातालादिशब्दार्थयो)देन तत्तत्प्रयोजकधर्माणाम्भिन्नत्वेनाऽक्षतेः।
न च तृतीयसम्बन्धनिवेशे "निपातस्याऽनर्थकस्य प्रातिपदिकसंज्ञा वक्तव्येति" वार्तिकोदाहरणे केवलपादपूरणमात्रार्थकत्वेन च वै तु हि इत्यादावर्थप्रयोजकत्वाऽभावेन तयोस्समानानुपूर्वीकत्वन्न स्यादिति वाच्यम् ? तत्तत्समानानुपूर्वीकत्वन्तत्तत्पद एव । तथा हि घटपदसमानानुपूर्वीकत्वं घटपद एव न तु नीलघटे स्वनिष्ठघत्वावच्छिन्नविषयतानिरूपितात्वावच्छिन्नविषयतानिरूपितटत्वावच्छिन्नविषयतानिरूपितात्वावच्छिन्नविषयत्वावच्छिन्नभेदप्रतियोगितावच्छेदकविषयतात्वसमनियतज्ञानविषयतापर्याप्त्यवच्छेदकधर्मवत्त्वं घटे धटपदसमानानुपूर्वीकत्वम् । पटादिसमानानुपूर्वीकत्वम्पटादिषु बोध्यमिति निर्विवादः प्रकारः ।।
___ सानात्यच विभक्तिविभाजकेति-~ तत्साजात्यन्नाम-तवृत्तिधर्मवत्वम् । अत्र शब्दो धर्मपरः, एवञ्च वेदाः प्रमाण