________________
व्युत्पत्तिवादः
अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्त्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते यथा नीलो घटो नोलघटमानयेत्यादौ घटादौ नोलादेः न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वय बोधस्य सर्वानुभवविरुद्धत्वात् । स्वसमानविभक्तिकत्वं चं स्वप्रकृतिकविभक्तिसजातोय विभक्तिकत्वम् ।
२२
स्वाश्रयवृत्तित्व — स्वाश्रयाश्रयवृत्तित्वान्यतरसम्बन्धेन । संसर्गतावादिमते राज्ञो राजेत्यादौ यत्र प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरैक्यन्तत्सम्बन्धस्य स्वत्वादेर्द्विष्ठत्वसिद्धिरेव प्रथमसम्बन्धनिवेशफलम् ।
अभेदस्य द्विष्ठत्वासिद्धि पूर्वक सम्बन्धत्वसिद्धये द्वित्तीयसम्बन्धनिवेशः । भूतले घट इत्यादौ तु सुतराद्विष्ठत्वसिद्धया सम्बन्धत्वम् इत्यपि परस्परविरोधपरिहारोपायः ।
वस्तुतस्तु
" नहि कस्यचिद् ग्रन्थकृतो विपरीत लिखनं युक्तिबलाद्वस्तुसिद्धौ बाधकमिति" मूलसिद्धान्तेन व्याकरणभाष्यकृता द्यौपाधिकभेदेन राहोश्शिर इत्यादौ षष्ठीसाधितत्वेऽपि सर्वव्यवहारलोकशास्त्राबालवृद्धसाधारणप्रसिद्धस्याभेदस्य सम्बन्धस्य सत्त्वे क्षतिबिरहः । किञ्च अथ व्याकरणमित्यस्य कः पदार्थस्सूत्रमिति व्याख्यानेन व्यपदेशिवदेकस्मिन्निति परिभाषोत्पत्तये औपाधिकभेदपूर्वक षष्ठीप्रदर्शनमर्थात् कालपुरुषाद्युपाधिभेदेन राहुशिरः पदार्थयोर्भेद इति । तथा च परिभाषाप्रकाशे भाष्यकृतः परिश्रम इत्यभेदसम्बन्धसत्त्वे न किञ्चिद् बाधकमिति शुक्लाः ।
सूचीकटाहन्यायेनोद्देशक्रमेण चाऽभेदस्य संसर्गतया भानस्थलमाह---अभेदश्व प्रातिपदिकार्थे इनि । अनुयोगित्वं सप्तम्यर्थः, उपस्थापितस्येत्यत्र षष्ठयर्थः प्रतियोगित्वं पदार्थस्येति शेषः । समन्वयश्च नीलो घट इत्यादौ प्रातिपदिकार्थे स्वसमानविभक्तिकेन घटादिलक्षणानुयोगिवाचकघटपदादिसमानविभक्तिक्रेन नीलपदेनोपस्थापितस्य नीलपदार्थस्याऽभेदस्संसर्गमर्यादया आकाङ्क्षया भासते । नीलपदोत्तरविभक्तेस्साधुत्वमात्रार्थकत्वात् नीलस्य घट इत्यादौ विभक्तया व्यवधानम् । विरुद्धविभक्तिमत्पदार्थस्याऽभेदो न भासत इति तत्त्वम् । ननु वेदाः प्रमाणमित्यादौ वेदपदप्रमाणपदयोस्समानविभक्तिकत्वाभावेऽपि वेदप्रमाणादिपदार्थयोरभेदो भासत एवेति तात्पर्येण समानविभक्तिकत्वन्निर्वक्ति-स्वसमानेति । अत्र स्वपदेनानुयोगिवाचकं पदं गृह्यते वेदाः प्रमाणमित्यत्र अनुयोगिवाचकम् वेदपदन्तत्प्रकृतिका विभक्तिर्जसू विभक्तिस्तत्सजातीयत्वम्प्रमाणपदेऽप्यस्त्येव । तस्याऽपि प्रमाणपदस्याऽपि प्रथमान्तत्वात् । तथा च नाऽभेदान्वयहानिः । ननु वेदपदोत्तरं जविभक्तिः प्रमाणपदोत्तरञ्च सुविभक्तिः कथं साजात्यमिति तदेव परिष्करोति-- साजात्यचेति । आनुपूर्वीलक्षणमंत्र साजात्यन्न ग्राह्यं किन्तु प्रथमात्वाद्यन्यतमधर्मेणैव । एवञ्च सुसुजसोरुभयोरपि प्रथमात्वेन