________________
शास्त्राथकलापरिष्कृतः आधाराऽधेय इति विशिष्टस्य सम्बन्धत्वन्तु वैयाकरणमतेन "सम्बन्धी हि सम्बन्धिभ्याम्भिन्नो द्विष्ठो विशिष्टबुद्धिनियामकश्चेति" भाष्यबलेन प्रतियोग्यनुयोगिनिष्ठस्यैव सम्बन्धत्वम् । न्यायमते तु अनुयोगिवृत्तिधर्मस्यैव सम्वन्धत्वम् । भूतले घट इत्यादौ घटस्य भूतले आधारतासम्बन्धः, भूतलस्य घटे आधेयतासम्बन्धः, भूतलस्य घटे प्रतियोगिता, घटस्य भूतलेऽनुयोगितासम्बन्धः । किन्तु घटो नास्तीत्यादौ घटत्वावच्छिन्नप्रतियोगितानिरूपकत्वस्य संसर्गत्वेऽपि घटत्वमवच्छिन्नत्वं प्रतियोगित्वञ्चेति प्रत्येकन्त्रिषु सम्बन्धत्वं यथा तथैवाधारतानिरूपिताधेयत्वस्य विशिष्टस्य सम्बन्धत्वेऽपि प्रत्येकमाधारत्वादेस्सम्बन्धत्वे बाधकाऽभाव इत्याशय इति ।
केचित्तस्वरूपसम्बन्धेनाऽऽधेयत्वस्याऽधेयपदार्थऽन्वयो निरूपकत्वसम्बन्धेनाधारेऽन्वय इत्येवन्द्विष्ठत्वोपपत्तावपि निरूपकत्वसम्बन्धस्य वृत्त्यनियामकत्वेन तत्त्वाऽसिद्धेरिति । भूतले घट इत्यत्र घटस्य भूतले संयोगसम्बन्धी घटसंयोगस्समवायेन भूतलेऽस्ति समवायश्च स्वरूपसम्बन्धेनाऽस्ति इति वदन्ति । न च अभेदसम्बन्धस्य द्विष्ठत्वाऽभावेन वैयाकरणमते कथमभेदस्य सम्बन्धत्वमिति । किञ्च व्याकरणमहाभाष्यप्रमाणसत्त्वे तद्विरोधो न्यायमते कथं व्याकरणप्रणेतृणां साक्षादवतारभूतत्वादिति वाच्यम् १ न विद्यते भेदो भेदसंसर्गो यत्र विशेष्यविशेषणभावे सोऽभेद इति विरोष्यविशेषणभावरूपार्थकोऽभेदशब्द इति सूक्ष्मतत्त्ववेत्त वैयाकरणाः । किञ्च विशिष्टबुद्धिविशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वाद् दण्डी पुरुष इति विशिष्टबुद्धिवत् । यत्किञ्चिन्निष्ठप्रका. रतानिरूपितविशेष्यतानिरूपिका विशिष्टबुद्धिस्सम्बन्धावगाहिनी विशिष्टबुद्धित्वाद् दण्डी पुरुष इति विशिष्टबुद्धिवत् इत्यनुमानेनाऽप्यभेदसम्बन्धसिद्धिः। - न चाऽमेदसम्बन्धसत्त्वे नीलो घट इत्यादौ “षष्ठी शेष" इत्यनेन षष्ठयापत्तिरिति वाच्यम् ? राज्ञ : पुरुष इत्यादौ भेदमूलकसम्बन्ध एव "द्विष्ठो यद्यपि सम्बन्धः षष्ठधुस्पत्तिस्तु भेदकादितिवाक्यपदीयबलेन षष्ठीविधानेनात्रानुपपत्तेरधिकन्त्वस्मत्कृतकौमुदीकल्पलतिकायां वैयाकरणसिद्धान्तकौमुदीटीकायान्द्रष्टव्यम् ।
वस्तुतस्तु “जात्याकृतिव्यक्तयः पदार्थ' इति न्यायसूत्रे वार्तिककारेणोक्तविशेषणविशेष्यमावस्यैकविषयत्वाद् विना सम्बन्धं विशेष्यविशेषणभावस्यैकविषयत्वात् । यद्यभेदसम्बन्धस्स्यात्तहिं विना सम्बन्धमितिवार्तिककारकथननिरर्थकं स्यात्तस्मानास्त्यभेद सम्बन्ध इति शाब्दिकम्मन्याः ।
न च राहोशिशरः शिलापुत्रकस्य शरीरम् इत्यादावीपाधिकभेदमादाय षष्ठथुपपा. दनं व्यपदेशिवद्भावेन भेदमादायेति तत्त्वम् , संसर्गस्य द्विष्ठत्वनियमात् नाऽभेदसंसर्ग इति वाच्यम् ? तादृशभाष्येणाऽभेदस्य षष्ठीप्रयोजकत्वन्नेति कल्पनेनाऽविरोधात् । किञ्च वैयाकरणीयसम्बन्धलक्षणे द्विष्ठत्वन्न द्वयोः पदार्थयोस्तिष्ठतीति द्विष्ठस्तस्य भावो द्विष्ठत्वं वर्णनीयं किन्तु विरोधपरिहाराय द्वित्वविशिष्टत्वं द्विष्ठत्वम् । वैशिष्टयञ्च