________________
व्युत्पत्तिवादः स च क्वचिदभेदः । कचिञ्च तदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिविषयविषयिभावादिः। स्तर्हि सर्वसिद्धो भेदो विरुद्धस्स्यात् । वृत्तित्वाधिकरणत्वयोरपि वृत्तित्वेन अधिकरणत्वेन । वाऽन्यसम्बन्धेन वा स्वीकारे वृत्तित्त्वाधिकरणत्वयोस्सम्बन्धविशेषजिज्ञासायां सम्बन्धविशेषावच्छिन्नत्वनिवेशे तयोरपि भेदेन अभेदेन वाऽन्वय इति प्रश्नजिज्ञासायामनवस्थाप्रसङ्गः। कुत्रचिद् गत्वा सम्बन्धानङ्गीकारेण वाक्यार्थस्वीकृतिरिति चेत् ? तर्हि पूर्वमेव सम्बन्धानङ्गीकारो न्याय्यः किं शिरोवेष्टननासिकास्पर्शन्यायानुसरणेन । तस्मा टूटबद्भूतलमि यादौ सम्बन्धरहित एव मानसः कश्चन बोध इतोऽधिकमुत्तरम्मृग्य मिति शुक्लाः ।
स च कचिदभेद इतिभेदसम्बन्धोऽभेदान्यसम्बन्धेषु पारिभाषिकः । शाब्दबोधो द्विविधः भेदाऽभेदान्व-. यविषयकत्वात् भेदलक्षणसम्बन्धानां प्रतियोगित्वानुयोगित्वादीनामनन्तत्वेन पूर्वमभेदमेवाह स चेति । भेदसम्बन्धानपि दर्शयति-आधाराऽधेयेति । घटवद् भूतलम् भूतले घटः इत्यादिशु आधाराऽऽधेयभावः । वस्तुतो भूतले घट इत्यादौ सप्तम्यर्थयोवृत्तित्वाधेयत्व. योः प्रतीत्या न संसर्गमर्यादया भानन्तथाऽप ग्रामं गच्छतीत्यादौ कर्मत्वं तिीयार्थस्तत्र ग्रामादेराधेयत्वेनान्वयस्तत्राधेय वस्य संसर्गतया भानम् । चैत्रस्य धनमित्यादाधाश्रयत्वार्थकाधारत्वस्य च संसर्गमर्यादया भानमिति सिद्धान्तः । घटो नास्ति भूतले इत्यादी प्रतियोग्यनुयोगिभावस्सम्बन्धः। घटे ज्ञानम् मोक्षे इच्छास्ति घटविषयकमोक्षविषयकेच्छायाः प्रतीयमानत्वेन विषयविषयिभावः। घटो विषयः ज्ञानम् विषयि ।
आधाराधेयभावेति-प्रकारोऽयं पुरातनः । प्राञ्च एव शाब्दिकादयःद्विष्ठत्वात्मकत्वेन विशिष्टसंसर्गमङ्गीकुर्वते तद्दर्शनायैव आधाराधेयभावादिरिति विस्पष्टम् । आधारतानिरूपितमाधेयत्वमिति रीत्या वा । भावादिरित्यत्र भावशब्दस्य प्रत्येकमन्वयः द्वन्द्वादी द्वन्द्वमध्ये द्वन्द्वान्ते च श्रयमाणपदम्प्रत्येकममिसम्बध्यत इति नियमात् । ज्ञापकश्च नियमेत्र प्रत्यंशं क्रमेण "अधिशीवस्थासाङ्कर्म" इत्यत्र अधिशब्दस्यादिमस्य "आशिविधिणत्वेषूपसर्गत्वप्रतिषेवो वक्तव्यः" अत्र विधिशब्दस्य मध्यश्रुतस्य "प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा" अत्र मात्रशब्दस्यान्तश्रुतस्य प्रत्येक सम्बन्धः ।
अत्र समेषां सम्बन्धानामुदाहरणानि न रोचन्तेऽस्मभ्यम् । यतो हि“प्रतिपिमितमर्थम्प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति प्रेक्षावताम् अप्रतिपित्सितञ्च प्रतिपादयन्नायं लौकिको नापि परीक्षक इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येते"ति पण्डितवरश्रीवाचस्पतिमिश्रवचनानुसारेण इह प्रतिपित्स्यमानं संसर्गमर्यादया भासमानस्य संसर्गस्य निरूपणं तत्र प्रथमस्य आधाराधेयभावस्योदाहरणं वदन्ति टीकान्तरकृतः भूतले घट इति तत्र वृत्तित्वम् (आधेयत्वम् ) एवं सप्तम्यर्थस्स च प्रकारतया भासते न तु संसर्गतया। एवं विषयविषयिभावस्यापि दृष्टान्तः प्रतिपादितो घटज्ञानमित्याधो नाहणीयः तत्रापि विषयित्वादेः षष्ठयर्थतया प्रकारत्वेन भासमानस्वात्। किन्तु आधारतासम्बन्धस्योदाहरणं घटन्नाशयति विषयविषयिभावस्य च पुत्रायति चैत्रो ग्रामं जिगमिषतीत्यादि । प्रतियोग्यनुयोगिभावस्य तु घटो नास्तीति प्रसिद्धमेवेति संक्षेपः ।