________________
शास्त्रार्थकला
कलापरिष्कृतः
१९
साधनपदेन जनकताश्रयो गृह्यते । जनकत्वञ्च क्वचित् साक्षात्सम्बन्धेन क्वचिच्च परम्परया । एवञ्च विषयतासम्बन्धावच्छिन्नभोगनिष्ठजन्य तानिरूपिततादात्म्यसम्बन्धावच्छिन्नजनकतावत्त्वं विषयत्वमिति फलितम् । विशेषस्पष्टीकरणन्तु तादात्म्यसम्बन्धावच्छिन्नभोगनिष्ठजन्यतानिरूपितविषयित्व - स्वप्रयोज्यनिरूपितविषयित्वान्यतरसम्बन्धावच्छिनजनकतावत्वं विषयत्वमिति । स्वप्रयोज्यत्वञ्च स्वजन्यस्वजन्यजन्यादिरूपम् । परम्पराजनकतायामव्यविनिष्ठत्वोपादानेन नित्यपदार्थानां व्यावृत्तिः । “आपाततः प्रतीतसन्दिग्धार्थो विषय " इति जैमिनिः ।
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति शास्त्रेऽस्मिन्पञ्चाधिकरणं स्मृतम् ॥ इति मीमांसा |
विशब्दो हि विशेषार्थस्सिनोतिर्बन्धनार्थकः 1
आरोपाश्रयो विषयो गौर्वाहीक इत्यादौ वाहीको विषय इत्यालङ्कारिकाः । 'इन्द्रियजन्यज्ञानं विषयः, शब्दस्पर्शरूपरसगन्धा विषयाः ।
विषयाशा महापाशाद्यो विमुक्त स्सुदुस्त्यजात् ।
स एव कल्प्यते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ॥
इति पौराणिकाः । शरीरेन्द्रियभिन्नत्वे सति उपभोगसाधनत्वं विषयत्वमिति नैयायिकाः । विषयो द्विविधः परोक्षः अपरोक्षश्च । अनुमानगम्यः प्रथमः, प्रत्यक्षविषयो द्वितीयः । इतोऽधिकमस्मत्कृतपरिष्कारदर्पणे द्रष्टव्यमिति ।
घटोऽस्ति
“जात्याकृतिव्यक्तयः पदार्थ" इति सूत्रानुरोधेन घटपदस्य घट-घटत्व- समवायेषु शक्तिस्तथा च घटे घटत्वं समवायेन भासत इति सिद्धान्तः । ननु घटे घटत्वं समवायेन · भासत इत्यस्य कोऽर्थः ? निरूपितत्वं सप्तम्यर्थमादाय किं घटनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वं घटत्वेऽयमर्थः अथवा समवायसम्बन्धावच्छिन्नघटत्वनिरूपिताधिकरणत्वं घटेऽयमर्थः । उभयथापि वृत्तित्वाधिकरणत्वयोरभेदसम्बन्धे घटघटत्वयोरेव भाने पर्यवसानम् । भेदसम्बन्ध स्वीकारेऽभीष्टबोधो न स्यादेवश्चास्मिन्सन्देहे किमुत्तरमिति शुक्लाः ?
I
—
घटवद् भूतलमिति -
घटबद्भूतलमित्यादौ
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वावच्छिन्न विशेष्यताक इति बोधे विलक्षणो विचारप्रकारः । संयोगेन भूतले घटावगाहनमिति फलितार्थे संयोगेन भूतले घटावगाहित्वमित्यस्य कोऽर्थः ? किं संयोगेन घटाधिकरणत्वम् अथवा भूतलनिरूपित संयोगसम्बन्धावच्छिन्नवृत्तित्ववत्त्वम् । किञ्च - तादृशाधिकरणत्ववृत्तित्वयोर्भूतलघटाभ्यां कीदृक् सम्बन्धः । तयोस्ताभ्यामभेदसम्बन्ध